This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः ।
विधिनिदेशविदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ६१ ॥
येनामोदिनि पङ्कजस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
 
८३
 
सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥ ६२ ॥
इह सरसि सहर्ष मञ्जु गुञ्जाभिरामं
 
मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
अनुपम मकरन्दामोददत्तप्रमोदा
 
त्यजति [तव] ( वत) न निद्रां मालती यावदेषा ॥ ६३ ॥
एनाममन्दमकरन्दविनिद्रबिन्दु-
संदोहदोहदपदं नलिनीं विमुच्य ।
हे मुग्ध षट्पद निरर्थकरागभाजि
 
जातं मनस्तव जपाकुसुमे किमत्र ॥ ६४ ॥
निराचष्टे यष्टिं कुरबकतरोरजसरसा-
मसद्भाचं ब्रूते वदति बकुलानामकुशलम् ।
बनान्ते चूतानामभवनमिहाख्याति वसति-
मसौ झिञ्झीझाटे झटिति घटमानो मधुकरः ॥ ६५ ॥
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
 
रसाले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नो सङ्गं रचयति न चूते विचरति
स्मरँलक्ष्मीलीला कमलमधुपानं मधुकरः ॥ ६६ ॥
अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये
वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहती-
र्येनानेकपगण्डगण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ ६७ ॥
 
१. 'विधिवशात्परदेश' इति पाठान्तरम्.
 
For Private And Personal Use Only