This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
८२
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु ।
केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥
मधुकर मा कुरु शोकं विचर करीरमस्य कुसुमेषु ।
घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ५२ ॥
अपसर मधुकर दूरं परिमलबहुलेsपि केतकीकुसुमे ।
इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५३ ॥
दग्धा सा बकुलावली कवलितास्त्वेते रसालद्रुमाः
प्लुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।
भ्रातर्भृङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं
 
किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायते ॥ ५४ ॥
दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
 
नो जिघ्रत्यपि पाटलापरिमलं चूते न धत्ते रतिम् ।
मन्दारेऽपि न सादरो विच किलामोदेsपि संतप्यते
 
तन्मन्ये क्वचिदङ्ग भृङ्ग तरुणेनास्वादिता मालती ॥ ५५ ॥
अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः ।
न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ ५६ ॥
ये वर्धिताः करिकपोलमदेन भृङ्गाः
 
प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः ।
ते सांप्रतं प्रतिदिनं गमयन्ति कालं
 
निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ५७ ॥
अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे ।
विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ५८ ॥
अपि दलन्मुकुले बकुले यया पदमदायि कदापि न तृष्णया ।
अहह सा सहसा विमुखे विधौ मधुकरी बदरीमनुवर्तते ॥ ५९ ॥
पादेनापहता येन जातीलुब्धेन मल्लिका ।
अहो दैवादलेस्तस्य बदर्यपि सुदुर्लभा ॥ ६० ॥
 
१. 'हेलया' इति पाठान्तरम्.
 
For Private And Personal Use Only