This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
सत्यं विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-

वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥ ४३ ॥

 
अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि ।

गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ ४४ ॥

 
दानार्थिनो मधुकरा यदि कर्णताला-

द्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।

तस्यैव गण्डयुगमण्डनहानिरेषा
 

भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ४५ ॥

 
प्रतिवेशी हंसजनः क्रीडाभवनानि पुण्डरीकाणि ।

हृद्यं मधु जलममलं मधुकर तत्रैव यदि रमसि ॥ ४६ ॥

 
मातङ्गेन मदावलिप्तमतिना यत्कर्णतालानिलै-

र्दानार्थं समुपागता मधुलिहो दूरं समुत्सारिताः ।

तस्यैवाननमण्डनक्षतिरमी भृङ्गाः पुनः सर्वतो
 

जीविष्यन्ति नान्तरेषु विलसत्पुष्पासवैः साधुभिः ॥ ४७ ॥

 
यद्यप्याम्रतरोरमुष्य तरुणीकर्णावतंसोचिता-

माजिघ्रन्नवमञ्जरीं मधुप हे जातोऽसि पूर्णोत्सवः ।

वि(स्म) र्तुर्तुं भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं
 

यस्यास्वाद्य मधूनि धूनितशिरो मञ्जु त्वयोद्भुगुञ्जितम् ॥ ४८ ॥

 
मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां
 

पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।

तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं

परिचितजनद्वेषी लोको नवं नवमीहते ॥ ४९ ॥

 
यस्याः सङ्गभवाञ्छया न गणिता वाप्यो विनिद्रोत्पला

यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् ।

भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते

धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ ५० ॥
 
२०
 
For Private And Personal Use Only