2023-02-21 15:48:54 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
सत्यं विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-
वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥ ४३ ॥
अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि ।
गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ ४४ ॥
दानार्थिनो मधुकरा यदि कर्णताला-
द्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।
तस्यैव गण्डयुगमण्डनहानिरेषा
भृङ्गाः पुनर्विकचपझवने चरन्ति ॥ ४५ ॥
प्रतिवेशी हंसजनः क्रीडाभवनानि पुण्डरीकाणि ।
हृद्यं मधु जलममलं मधुकर तत्रैव यदि रमसि ॥ ४६ ॥
मातङ्गेन मदावलिप्तमतिना यत्कर्णतालानिलै-
र्दानार्थं समुपागता मधुलिहो दूरं समुत्सारिताः ।
तस्यैवाननमण्डनक्षतिरमी भृङ्गाः पुनः सर्वतो
जीविष्यन्ति बनान्तरेषु विलसत्पुष्पासवैः साधुभिः ॥ ४७ ॥
यद्यप्याम्रतरोरमुष्य तरुणीकर्णावतंसोचिता-
माजिघन्नवमञ्जरीं मधुप हे जातोऽसि पूर्णोत्सवः ।
वि(स्म) र्तु भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं
यस्यास्वाद्य मधूनि धूनितशिरो मञ्जु त्वयोद्भुजितम् ॥ ४८ ॥
मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितजनद्वेषी लोको नवं नवमीहते ॥ ४९ ॥
यस्याः सङ्गभवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
यामालिङ्गय समुत्सुकेन मनसा यातः परां निर्वृतिम् ।
भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
धैर्य नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ ५० ॥
२०
For Private And Personal Use Only