This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
८०
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
मुग्धामनाप्तरजसं कलिकामकाले
बालां कदर्थयसि किं नवमल्लिकायाः ॥ ३६ ॥
विकटनितम्बायाः ।
 
बाला तन्वी मृदुतरतनुस्त्यज्यतामत्र शङ्कां
 
दृष्टा किं न भ्रमर चरता मञ्जरी भज्यमाना ।
तस्मादेषा रहसि भवता निर्दयं पीडनीया
 
मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ ३७ ॥
मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् ।
वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ ३८ ॥
फुल्लेषु यः कमलिनीकमलोदरेषु
 
चूतेषु यो विलसितः कलिकान्तरस्थः ।
पश्याथ तस्य मधुपस्य शरद्यपाये
 
कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ३९ ॥
स्वामोदवासितसमग्रदिगन्तराला
 
रक्ता मनोहरशिखा सुकुमारमूर्तिः ।
सेव्या सरोजकलिका तु सदैव जाता
 
नीतस्तदैव विधिना मधुपोऽन्यदेशम् ॥ ४० ॥
धिक्कापि प्रलयानलैर्विटपिनो निर्दय भस्मीकृताः
किंवा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् ।
किंवा हन्त कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरै-
येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ ४१ ॥
यत्प्रोन्मत्तमतङ्गजाङ्गविगलद्दानाम्बुलोभभ्रम-
भृङ्गाली किल कूजतीति विदुषां चित्ते विधत्ते धियम् ।
कर्णाभ्यर्णमुपेत्य किं ननु वदत्येषा शिरः कम्पनै-
मस्मान्वारय नाग देहि विततं दानं चलाः संपदः ॥ ४२ ॥
सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
 
दृष्टिः सा मदविस्मृतस्वपरदिकिं भूयसोक्तेन वा ।
 
For Private And Personal Use Only