This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
थ भ्रमरान्योक्तिमुक्तावली
 
अथ भ्रमरान्योक्
तयः ।

मधुकर त करनिकरैः किं किं क्रान्तं न कुसुमानाम् ।

तद्वत्सरसिजमुकुले लब्धं किंचित्तदन्यतत्सत्किम् ॥ २६ ॥

 
गौरीं चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।

शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २७ ॥

 
कृत्वापि कोशपानं भृङ्गयुवा पुरत एव कमलिन्याः ।

अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ २८ ॥

 
सुरतरुकुसुमे मधु मधुरं यन्मधूपेन निपीतम् ।

सत्प्रयतोऽपि करीरतरौ लभतां कथमविगीतम् ॥ २९ ॥

 
भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् ।

सा किं न रम्या स च किं न रन्ता गरीयसी केवलमीश्वरेच्छा ॥ ३० ॥

 
भ्रमर भ्रमता दिगन्तराणि क्वचिदासादितमीक्षितं श्रुतं वा ।

बद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ३१ ॥

 
अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः ।

भ्रमति मधुकरोऽयमन्तराले श्रयति स पङ्कजिनीं कुमुद्वतीं वा ॥ ३२ ॥

 
द्विजपतिदयितां तां व्यक्तपुष्पां प्रदोषे-

ऽप्यहह कुमुदिनीं किं भृङ्ग भुङ्गेक्षे स्वधार्थ्ष्ट्यात् ।

मलिन मधुप मन्ये त्वय्यदः सर्वमर्
 
हं
विहितमविहितं वा चिन्तयेत्को हि लोलः ॥ ३३ ॥

 
नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं

वासन्तीं वसते न चन्दनवनीमालम्बते न क्वचित् ।

जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां

ध्यायन्निर्वृतिमेति षटृट्पदयुवा योगीव वीतभ्रमः ॥ ३४ ॥

 
केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।

दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ३५ ॥

 
अन्यासु तावदुपमर्दसहासु भृङ्ग

लोलं विनोदय मनः सुमनोलतासु ।
 
For Private And Personal Use Only