This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
सो सद्दो धवलत्तणं च रयणादारंमि उप्पत्ती ।

सङ्घस्स तुज्झकुटिलत्तणेण सव्वंपि पब्भट्टम् ॥ १९ ॥
 

( इति शङ्खान्योक्तयः ।)
 

 
अथ मत्कुणस्य ।
 

मन्ये मत्कुणशङ्कया जलनिधौ गत्वा हरिः सुप्तवां-

स्तन्नाभ्यम्बुरुहे प्रजापतिरभूल्लक्ष्मीश्च तद्वक्षसि ।

कैलासाचलमाश्रितः पशुपतिर्गौरी तदुत्सङ्गगा
 

नक्षत्रग्रहमण्डलं च सकलं येषां भयाद्भ्राम्यति ॥ २० ॥

 
शशिदिनकरौ व्योम्नि स्वर्गे शचीहृदयेश्वरो

धनपतिरसौ कैलासाद्रौ हरिर्मकराकरे ।

शतधृतिरयं नाभौ शम्भुः श्मशानभुवं गतो

भुजगरमणोऽधो मन्येऽहं द्रुतं किल मत्कुणात् ॥ २१ ॥

 
अथ खद्योतान्योक्तयः ।

जर्जरतॄणाप्ग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् ।

कीटत्वमात्मतत्वात्खद्योतः ख्यापयन्भवति ॥ २२ ॥

 
इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः

स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।

अन्धं समग्रमपि कीटमणे भविष्य-

त्युन्मेषमेष्यति भवानपि पूरमेतत् ॥ २३ ॥
 

 
अदृष्टिव्यापारं गतवति दिनानामधिपतौ
 

यशः शेषीभूते शशिनि गतधान्नि ग्रहगणे ।

तथान्धं संजातं जगदुपनते मेघसमये
 

यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥ २४ ॥
 

 
घनसन्तमसमलीमस दशदिशि निशि यद्विराजसि तदन्यत् ।

कीटमणे दिनमधुना तरणिकरान्तरितशीतकरम् ॥ २५ ॥
 

( इति खद्योतान्योक्तयः ।)
 
For Private And Personal Use Only