This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अन्तः कुटिलतां बिभ्रच्छङ्खः स खलु निष्ठुरः ।

हुंकरोति यदाध्मातस्तदेव बहु गण्यताम् ॥ ११ ॥
 

 
विमलतां वचनस्य...गोचरे जनयिता तव शङ्ख महोदधिः ।

मुदमलं तनुते च तव ध्वनिः किमु ततो विधृता हृदि वक्रता ॥ १२ ॥

 
जन्मस्थानमपांनिधिः शुचितया ख्यातिस्तवैवोज्ज्वला

माङ्गल्ये च जगत्प्रबोधजनको नादस्तवैवाग्रणीः ।

किंवा ते कमलापतिः प्रणयिता ब्रूमस्तवैवंविधे

माहात्म्ये सति शङ्ख सङ्गतमिदं कौटिल्यमन्तः कुतः ॥ १३ ॥

 
तातः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः

सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि ।

धिक्कर्माणि स एव कम्बुरधुना पाखण्डिकान्ताकरे
 

विश्रान्तः प्रतिवासरं प्रतिगृहं मैभैक्ष्येण कुक्षिषिंभरिः ॥ १४ ॥

 
सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधे-

र्
गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः ।

श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि य-

त्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनापि लज्जामहे ॥ १५॥

 
शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचीघटाघट्टिताः

पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।

एकः कोऽपि च पाञ्चजन्य उदभूदाश्चर्यधामा सतां

यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ १६ ॥

 
अम्भोघेधेरेव जाताः कति जगति न ते हन्त सन्तीह शङ्खा

यान्संगृह्य भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय ।

एकः श्रीपाञ्चजन्यो हरिहरकमलकोक्रोडहंसायमानो

यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ॥ १७ ॥

 
पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी ।

शङ्खः प्रतिगृहं रौति कर्म तस्यैव कारणम् ॥ १८ ॥
 
For Private And Personal Use Only
 
७७