This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
चतुर्थः परिच्छेदः ।
 

 
सिद्धिश्रिया किं निहिताः कटाक्षा मनोवशीकर्तुमिहाश्वसेनेः ।

त एव भान्ति स्वकशीर्षदेशस्थितस्फटानां कपटेन मन्ये ॥ १ ॥

 
श्रेयः श्रियं दिशतु सद्गुणराजराजी-

राजीवजैत्रनयनः सुररत्नकल्पः ।

कल्पद्रुमः किल जनाभिमतार्थसिद्धौ

सिद्धौषधः स्मरगदे जिनवर्धमानः ॥ २ ॥

 
अथ समवसरणबन्धचित्रम् ।

सकललोकचकोरनिशाकर रजतकाय हरिध्वज शंकर ।

रमण संयमिनां भवतारक कविकुलस्त्रुतमुक्तिपुरे वस ॥ ३ ॥

 
निखिलनाकिनिकायविनिर्मितं ततमहामणिहेमहिमांशुभिः ।

भिदुरवद्यमहीमृभृति रातु शं समवयुक् सरणं तव मुत्खनि ॥ ४ ॥

 
सुजन भो सुतरां चरमप्रभुं भुवनवर्तिजनार्तिनिवारकम् ।

कलनिनादमभीष्टसुखप्रदं दमिवरं र चेतसि सद्वभुम् ॥ ५ ॥

 
शुद्धप्राग्वाटवंशाभ्रप्रभासनदिवाकरः ।

दद्यादानन्द मानन्दसद्गुरुः सततोदयः ॥ ६ ॥

 
अथ प्रतिद्वारवृत्तानि ।
 

वर्यतुर्यपरिच्छेदे प्रतिद्वारस्य पद्धतिः ।

सम्यग्बुद्धिप्रबोधाय तन्यते मयकाधुना ॥ ७ ॥

 
शङ्खान्योक्तिर्मत्कुणोक्तिः खद्योतान्योक्तयस्ततः ।

भ्रमरान्योक्तयो ज्ञेया वाग्विलासविशारदैः ॥ ८ ॥

 
अथ विकलेन्द्रियाधिकारपद्धतावादौ शङ्खान्योक्तयः ।

उच्चैरुच्चर रुचिरं झिल्लीवर्त्मसु तरुं समारुह्य ।

दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ ९ ॥

 
कीटगृहं कुटिलोऽन्तः कठिनः क्षाराम्बुसंभवः शून्यः ।

शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लभते ॥ १० ॥
 
For Private And Personal Use Only