This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
चतुर्थः परिच्छेदः ।
 
सिद्धिश्रिया किं निहिताः कटाक्षा मनोवशीकर्तुमिहाश्वसेनेः ।
त एव भान्ति स्वकशीर्षदेशस्थितस्फटानां कपटेन मन्ये ॥ १ ॥
श्रेयः श्रियं दिशतु सद्गुणराजराजी-
राजीवजैत्रनयनः सुररत्नकल्पः ।
कल्पद्रुमः किल जनाभिमतार्थसिद्धौ
सिद्धौषधः स्मरगदे जिनवर्धमानः ॥ २ ॥
अथ समवसरणबन्धचित्रम् ।
सकललोकचकोरनिशाकर रजतकाय हरिध्वज शंकर ।
रमण संयमिनां भवतारक कविकुलतमुक्तिपुरे वस ॥ ३ ॥
निखिलनाकिनिकायविनिर्मितं ततमहामणिहेमहिमांशुभिः ।
भिदुरवद्यमहीमृति रातु शं समवयुक् सरणं तव मुत्खनि ॥ ४ ॥
सुजन भो सुतरां चरमप्रभुं भुवनवर्तिजनार्तिनिवारकम् ।
कलनिनादमभीष्टसुखप्रदं दमिवरं घर चेतसि सद्वभुम् ॥ ५ ॥
शुद्धप्राग्वाटवंशाभ्रप्रभासनदिवाकरः ।
दद्यादानन्द मानन्दसद्गुरुः सततोदयः ॥ ६ ॥
अथ प्रतिद्वारवृत्तानि ।
 
वर्यतुर्यपरिच्छेदे प्रतिद्वारस्य पद्धतिः ।
सम्यग्बुद्धिप्रबोधाय तन्यते मयकाधुना ॥ ७ ॥
शङ्खान्योक्तिर्मत्कुणोक्तिः खद्योतान्योक्तयस्ततः ।
भ्रमरान्योक्तयो ज्ञेया वाग्विलासविशारदैः ॥ ८ ॥
अथ विकलेन्द्रियाधिकारपद्धतावादौ शङ्खान्योक्तयः ।
उच्चैरुच्चर रुचिरं झिल्लीवर्त्मसु तरुं समारुह्य ।
दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ ९ ॥
कीटगृहं कुटिलोऽन्तः कठिनः क्षाराम्बुसंभवः शून्यः ।
शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लभते ॥ १० ॥
 
For Private And Personal Use Only