This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
किमत्र हे चातक दीर्घकण्ठं प्रसार्य वक्त्रं करुणं विरौषि ।

रात्रौ दिवा बर्षति वारिदोऽत्र तथापि पन्त्रत्रितयं पलाशे ॥ १६७ ॥

 
विरम चातक दैन्यमपास्यतां बत चटूनि कियन्ति करिष्यसि ।

विधिविनिर्मितमम्बुकणद्वयं किमधिकं कलयापि करिष्यसि ॥ १६८ ॥

 
बीजैरङ्कुरितं जटाभिरुदितं बल्लीभिरुज्जृम्भितं

कन्दैः कन्दलितं जनैः प्रमुदितं धाराधरे वर्षति ।

भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानीमहे
 

येनास्मिन्न पतन्ति चञ्जुपुटके द्वित्राः पयोबिन्दवः ॥ १६९ ॥

 
दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं

तत्तस्योपनयेन्मनागपि सदा नैवाश्रयः कारणम् ।

सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
 

सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १७० ॥

 
रक्ताब्जपुञ्जरजसारुणितान्विमुच्य

स्वस्थान्सुधारससमानपि वारिराशीन् ।

यश्चातकः पिबति वारिधरोदबिन्दू-

न्मन्ये तदानतिभयाच्छिरसोऽभिमानी ॥ १७१ ॥

 
कूपे पानमधोमुखं भवति मे नद्यो वराक्यः स्त्रियः

सामान्यैर्बकटिट्टिभैः सह सरस्येवं समालोकयन् ।

नादत्ते तृषितोऽपि हीनसलिलं क्रूरैर्वृतं जन्तुभि-

र्मानादुन्नतकंधरः सुरपतिं तच्चातको याचते ॥ १७२ ॥

 
हा धिक्परव्यसनदुर्ललिताशयेन
 

केनापि रे सरल चातक वञ्चितोऽसि ।

येनाम्बुवाहमपि याचसि याचितस्य
 

यस्यास्य याचितुरिवातिमलीमसत्वम् ॥ १७३ ॥
 

 
किं नाम दुष्कृतमिदं भवतश्चकास्ति
 

येनात्र दैन्यपिशुनं बत याचितोऽपि ।
 
१८
 
For Private And Personal Use Only
 
७३