This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
७२
 
www.kobatirth.org.
 
काव्यमाला ।
 
अथ चातकान्योक्तयः ।

सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
 

अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ १५७ ॥

 
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।

इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ १५८ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
एक एव खगो मानी चिरं जीवतु चातकः ।

म्रियते वा पिपासातो याचते वा पुरंदरम् ॥ १५९ ॥

 
भ्रातश्चातक कथय सखे कीदृक् पापमकारि ।

नवजलदादपि च ञ्चुपुढेटे यत्ते पतति न वारि ॥ १६० ॥

 
गर्जितबधिरीकृतककुभा किमपि कृतं न घनेन ।

कियती चातकचञ्जुचुपुटी सापि भृता न जलेन ॥ १६९ ॥

 
दीनोन्नत चलपक्षतया बद्दह्वपि लब्धमवस्तु ।
 

चातक यत्संभावनया किमपि यदस्ति तदस्तु ॥ १६२ ॥

 
चातकस्य मुखचञ्जसंपुढेटे नो पतन्ति यदि वारिबिन्दवः ।

सागरीकृतमहीतलस्य किं दोष एव जलदस्य दीयते ॥ १६३ ॥

 
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता-

मम्भोदागमने वसन्ति बहवः सर्वेऽपि नैतादृशाः ।

केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्र्व्रथा
 

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १६४ ॥

 
अये वापीहंसा निजवसतिसंकोचपिशुनं
 

कुरुध्वं मा चेतो वियति डयतो वीक्ष्य विहगान् ।

अमी सारङ्गास्ते [^१]जलदजलपानव्यसनिनो
 

निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ १६५ ॥

 
स्फटिकविमलं पीत्वा तोयं घनोदरनिःसृतं
 

पिबति न पयो मासानष्टौ बतापि न चातकः ।

मनसि जलदं स्मृत्वा स्मृत्वा तृषापि न [ बाध्यति]
 
[^२]
गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ॥ १६६॥
 

 
[^१.] 'भुवनमहनीयव्रतभृतो' इति पाठः
[^
२.] 'बाघते' इति स्यात्.
 
१. 'भुवनमहनीयव्रतभृतो' इति पाट:.
 
For Private And Personal Use Only