This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
कवलितमिह नालं कन्दलं चेह दृष्ट-

मिह हि कुमुदकोशे पीतमम्भः सुशीतम् ।

इति विरटति रात्रौ पर्यटन्ती तटान्ते

सहचरपरिमुक्ता चक्रवाकी वराकी ॥ १४९ ॥

 
शतगुणपरिपाट्या पर्यटन्नन्तराले

कुमुदकुवलयानां मध्यरात्रेऽपि खिन्नः ।

उपनदि दयितायाः काक्वापि शब्दं निशम्य
 

भ्रमति पुलिनपृष्ठे [^१]चक्रेवाको वराकः ॥ १५० ॥

 
दिनान्ते चक्रवाकेन प्रियाविरहभीरुणा ।

तथा निःश्वसितं तेन यथा नोच्चूछ्वसितं पुनः ॥ १५१ ॥

 
एकेनार्के प्रकटितरुषा पाटलेनास्तसंस्थं
 
Acharya Shri Kailassagarsuri Gyanmandir
 

पश्यन्त्यक्ष्णाश्रुजललुलितेन।नापरेण स्वकान्तम् ।

अह्वश्छेदे दयितविरहाशङ्किनी चक्रवाकी
 

द्वौ संकीर्णो रचयति रसौ नर्तकीव प्रगल्भा ॥ १५२ ॥

 
उत्कृकूजति श्वसति मुह्यति याति तीरं
 

तीरात्तरुं तरुतलात्पुनरेति वापीम् ।

वाप्यां न तिष्ठति न चात्ति मृणालखण्डं
 

चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ १५३ ॥

 
अयं पद्मासनासीनश्चक्रवाको विराजते ।

युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥ १५४ ॥
 

 
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।

सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सह्यसह्यम् ॥ १५५ ॥

 
चक्रः पप्रच्छ पान्थं कथय मम सखे अस्ति स क्वापि देशो

वस्तुं नो यत्र रात्रिः प्रचरति विगायेति स प्रत्युवाच ।

नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना
 

सूर्ये ह्यन्तर्हितेऽस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ १५६ ॥

( इति चक्रवाकान्योक्तयः ।)
 

 
[^
१.] 'चक्रवच्चक्रवाकः' इति वा पाठ:.
 
For Private And Personal Use Only