This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
रमियाण पन्थियाणय पामर चोराण कुक्कडो कहइ ।

रेर महवहहवाहह पलायह पलयं गयार यणी ॥ १३५ ॥
 

( इति कुक्कुटान्योक्तयः । )
 

 
अथ मयूरान्योक्तयः ।

मयूर तव माधुर्ये स्वरेणैवोपलभ्यते ।

उरगग्रासनिस्त्रिंशकर्मणा दारुणो भवान् ॥ १३६ ॥

 
एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः

काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः ।

केकी क्रूजति चेत्तदा विघटितव्यालावलीबन्धनः

सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १३७ ॥

 
केका कर्णामृतं ते कुसुमितकबरीकान्तिहाराः कलापाः

कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसङ्घैः ।

विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः

कैः पुण्यैः प्राप्यमेतत्सकलमपि सखे चित्तवृत्तं मयूर ॥ १३८ ॥

 
वेगज्वलद्विटपपुञ्जमहारवोऽयं

गर्जिर्न तीव्रतरहेतिरियं न शम्पा ।

दावाग्निधूमनिवहोऽयमये न मेघः
 

किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥ १३९ ॥

 
अये नीलग्रीव व कथय सखे तेऽद्य मुनयः

परं तोषं येषां तव रविलासो वितनुते ।

अमी दूरात्क्रूराः क्वणितमिदमाकर्ण्य सहसा
 

त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः ॥ १४० ॥
 

 
हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिला:
 

सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरः स्थैरपि ।

एकेनापि तटस्थितेन नदता श्रीखण्डनिस्तर्जना-
ह्

द्व्
यालानां च शिखण्डिता ननु महापाण्डित्यमुद्दण्डितम् ॥ १४१ ॥
 
१८
 
For Private And Personal Use Only