2023-02-21 15:48:52 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
रमियाण पन्थियाणय पामर चोराण कुक्कडो कहइ ।
रेर महवहहवाहह पलायह पलयं गयार यणी ॥ १३५ ॥
( इति कुक्कुटान्योक्तयः । )
अथ मयूरान्योक्तयः ।
मयूर तव माधुर्ये स्वरेणैवोपलभ्यते ।
उरगग्रासनिस्त्रिंशकर्मणा दारुणो भवान् ॥ १३६ ॥
एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः
काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः ।
केकी क्रूजति चेत्तदा विघटितव्यालावलीबन्धनः
सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १३७ ॥
केका कर्णामृतं ते कुसुमितकबरीकान्तिहाराः कलापाः
कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसङ्घैः ।
विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः
कैः पुण्यैः प्राप्यमेतत्सकलमपि सखे चित्तवृत्तं मयूर ॥ १३८ ॥
वेगज्वलद्विटपपुञ्जमहारवोऽयं
गर्जिर्न तीव्रतरहेतिरियं न शम्पा ।
दावाग्निधूमनिवहोऽयमये न मेघः
किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥ १३९ ॥
अये नीलग्रीव व कथय सखे तेऽद्य मुनयः
परं तोषं येषां तव रखविलासो वितनुते ।
अमी दूरात्क्रूराः कणितमिदमाकर्ण्य सहसा
त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः ॥ १४० ॥
हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिला:
सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरः स्थैरपि ।
एकेनापि तटस्थितेन नदता श्रीखण्डनिस्तर्जना-
ह्यालानां च शिखण्डिता ननु महापाण्डित्यमुद्दण्डितम् ॥ १४१ ॥
१८
For Private And Personal Use Only