2023-09-23 09:04:00 by jayusudindra
This page has been fully proofread once and needs a second look.
६२
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
च्छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥ ८१
उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः
सदा मीनं भुङ्क्ते वसति सकलस्थाणुशिरसि ।
बके चन्द्रः सर्वो गुणसमुदयः किंचिदधिका
गुणाः स्थाने मान्या नरवर नतु स्थानरहिताः ॥ ८२ ॥
रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्वि
ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् ।
एवं यत्किल मानसस्य पदवीं काङ्क्षस्ययुक्तं हि त-
न्नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥ ८३ ॥
सिक्खेसि गयं सिक्खेसि वक्किमा धवलिमं समुव्वहसि ।
कह सिक्खसि बगराया पयनीरजुयंजुयाकरणम् ॥ ८४ ॥
( इति बकान्योक्तयः ।)
अथ खञ्जनान्योक्तिः ।
आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता
बन्धौ निर्ममता
त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात्पुनर्दाम्भिकं
ब
वन्दन्ते बत खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥८५॥
( इति खञ्जनान्योक्तिः ।)
अथ कोकिलान्योक्तयः ।
काकै: सह विवृद्धस्य कोकिलस्य कला गिरः ।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ८६ ॥
समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।
श्व
सहकारे चिरं स्थित्वा सलीलं बालकोकिल ।
तं हित्वा
For Private And Personal Use Only