This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
६२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
मुक्तास्फोटविभिन्नभूमिपटलं वैडूर्यरोहः क्वचि-
च्छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥८१
 
उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः
 
सदा मीनं भुङ्क्ते वसति सकलस्थाणुशिरसि ।
बके चन्द्रः सर्वो गुणसमुदयः किंचिदधिका
 
गुणाः स्थाने मान्या नरवर नतु स्थानरहिताः ॥ ८२ ॥
रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्वित्रतं
ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् ।
एवं यत्किल मानसस्य पदवीं काङ्क्षस्ययुक्तं हि त-
नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥ ८३ ॥
सिक्खेसि गयं सिक्खेसि वक्किमा धवलिमं समुव्वहसि ।
कह सिक्खसि बगराया पयनीरजुयंजुयाकरणम् ॥ ८४ ॥
( इति बकान्योक्तयः ।)
 
अथ खञ्जनान्योक्तिः ।
 
आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता
बन्धौ निर्ममता बने रसिकता वाचालता माधवे ।
 
त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात्पुनम्भिकं
 
बन्दन्ते बत खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥८५॥
( इति खञ्जनान्योक्तिः ।)
 
अथ कोकिलान्योक्तयः ।
 
काकै: सह विवृद्धस्य कोकिलस्य कला गिरः ।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ८६ ॥
समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।
श्वम्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ८७ ॥
सहकारे चिरं स्थित्वा सलीलं बालकोकिल ।
तं हित्वाच करीरेषु विचरन्न विलजसे ॥ ८८ ॥
 
For Private And Personal Use Only