This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 

 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
घि
धिक्तव शुक पठनव्यसनं जातं पञ्जरवासः ।

वरमन्ये द्विजराजगणस्तिष्ठति यः सुविलासः ॥ ६६ ॥

 
अये कीरश्रेणीपरिवृढ वृथा वासरशतं

किमर्थं व्यर्थं त्वं क्षपयसि पलाशे रभसतः ।

यदा पुष्पारम्भे मुखमलिनि किं किंशुकतरो-

स्तदैवं विज्ञातं फलपरिचयो दुर्लभ इति ॥ ६७ ॥

 
उच्चैरेकतरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
 
पक्कं

पक्वं
शालिवनं विहाय जडधीस्तां नालिकेरीं गतः ।

तत्रारुह्य बुभुक्षितेन मनसारम्भः कृतो भेदने

ह्
यायासो ननु केवलं बिविगलितो चञ्ञ्जुचुर्गता कूर्चताम् ॥ ६८ ॥

 
इदमकटु कपाटं जर्जरः पञ्जरोऽयं

विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा ।

शुक मुकुलितजिह्वं स्थीयतां किं वचोभि-

स्तव वचनविनोदेऽनादरः पामराणाम् ॥ ६९ ॥

 
सत्साङ्गत्यमवाप्य यः पुरवने नानारसास्वादव-

त्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने ।

दैवेनास्फुटबावाक्प्रपञ्चविहितश्रोत्रस्य तस्याटवीं
 

प्राप्तस्यात्मसभाप्रगल्भकविषु स्यान्मौनमेवोचितम् ॥ ७० ॥

 
भ्रा
तः कीर कठोरचञ्चुकषणक्रोधायितैः कूजितैः
 

किं माधुर्यनिषिक्तसूक्तिविशदः कण्ठावदुः शोष्यते ।

श्रीमद्भाराघवनामधेयमनिशं त्वं ब्रूहि मुक्तिप्रदं
 

सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते ॥ ७१ ॥

 
अमुष्मिन्नुद्याने विहग खल एष प्रतिफलं
 

विलोलः काकोल: क्वणति किल यावत्पटुतरम् ।

सखे तावत्कीर द्रढय हृदि वाचंयमकलां
 

न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ७२ ॥
 
For Private And Personal Use Only