This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
स्थास्यन्त्येते परिभवमपि प्राप्य हे पद्मसद्म-

नैकस्यायेंर्थे कमलसरसो निर्मिता राजहंसाः ॥ ५४ ॥

 
यत्रापि तत्रापि गता भवन्ति हंसा महीमण्डलमण्डनाय ।

हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः ॥ ५५ ॥

 
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभये निमज्जतः ।

चीयते न च न चापचीयते राजहंस तव शुद्धपक्षता ॥ ५६ ॥

 
हंसोऽसि तुमं सरमण्डणोऽसि धवलोऽसि धवल किं भणिमो ।

खलवायसाणमज्झे मूढ तुमं कत्थ पडिओसि ॥ ५७ ॥

 
कारणवसेण सुन्दरि हंसा सेवन्ति गामवाहुलिया ।

गमयन्ति केवि दीहा पुणोवि जो जत्थ सो तत्थ ॥ ५८ ॥

 
हंसो मसाणमज्झे काओजो वसइ पङ्कजवणम्मि ।

तहविहु हंसो हंसो काओ काओ वियाणीओ ॥ ५९ ॥
सब्

 
सव्
वेसु तुमं पावेसि सरोवरं रायहंस नहुचुज्जम् ।

माणससरसारिच्छं कहवि भमन्तो ण पावेसि ॥ ६० ॥

 
माणसविणा सुहाई जहय ण लब्भन्ति रायहंसेहिम् ।

तह तस्सवि तेहिविणा तीरुच्छङ्गा ण सोहन्ति ॥ ६१ ॥

 
परिसेसिअ हंसउलं पि माणसं माणसं ण संदेहो ।

अन्नत्थविजत्थ गया हंसा विया ण भणन्ति ॥ ६२ ॥
 

 
( इति हंसान्योक्तयः ।)
 

 
अथ शुकान्योक्तयः ।
 

 
किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।

बाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ ६३ ॥

 
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।

अदातरि समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ ६४ ॥

 
शुक यत्तव पठनव्यसनं न गुणः स गुणाभासः ।

समजनि येन तवामरणं शरणं पञ्जरवासः ॥ ६५ ॥
 
For Private And Personal Use Only
 
५०