This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
स्थास्यन्त्येते परिभवमपि प्राप्य हे पद्मसद्म-
नैकस्यायें कमलसरसो निर्मिता राजहंसाः ॥ ५४ ॥
यत्रापि तत्रापि गता भवन्ति हंसा महीमण्डलमण्डनाय ।
हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः ॥ ५५ ॥
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभये निमज्जतः ।
चीयते न च न चापचीयते राजहंस तव शुद्धपक्षता ॥ ५६ ॥
हंसोऽसि तुमं सरमण्डणोऽसि धवलोऽसि धवल किं भणिमो ।
खलवायसाणमज्झे मूढ तुमं कत्थ पडिओसि ॥ ५७ ॥
कारणवसेण सुन्दरि हंसा सेवन्ति गामवाहुलिया ।
गमयन्ति केवि दीहा पुणोवि जो जत्थ सो तत्थ ॥ ५८ ॥
हंसो मसाणमज्झे काओजो वसइ पङ्कजवणम्मि ।
तहविहु हंसो हंसो काओ काओ वियाणीओ ॥ ५९ ॥
सब्वेसु तुमं पावेसि सरोवरं रायहंस नहुचुज्जम् ।
माणससरसारिच्छं कहवि भमन्तो ण पावेसि ॥ ६० ॥
माणसविणा सुहाई जहय ण लब्भन्ति रायहंसेहिम् ।
तह तस्सवि तेहिविणा तीरुच्छङ्गा ण सोहन्ति ॥ ६१ ॥
परिसेसिअ हंसउलं पि माणसं माणसं ण संदेहो ।
अन्नत्थविजत्थ गया हंसा विचया ण भणन्ति ॥ ६२ ॥
 
( इति हंसान्योक्तयः ।)
 
अथ शुकान्योक्तयः ।
 
किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।
बाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ ६३ ॥
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।
अदातरि समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ ६४ ॥
शुक यत्तव पठनव्यसनं न गुणः स गुणाभासः ।
समजनि येन तवामरणं शरणं पञ्जरवासः ॥ ६५ ॥
 
For Private And Personal Use Only
 
५०