This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
५८
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
पक्षौ तावदतीन्द्रधामधवलौ धन्या गतेश्चारुता

नादः सादरसुन्दराश्रुतिसुखः स्थानं सरो मानसम् ।

नीरक्षीरविवेचनं च सहजं श्लाघ्यो गुणानां गणः

शेवालाङ्कुरपत्रभोजनमिदं नाहं सहे हंस हे ॥ ४८ ॥

 
हंहो हंस महामते बलिभुजां मध्ये स्थितितिं मा कृथा

लोकस्त्वां सितकाकमेव मनुते मीमांसते नो गतिम् ।

नो जानाति विमिश्रदुग्धपयसां दुग्धग्रहे नैपुणं

घूकैः संप्रहरस्यते तव शिरस्त्वं धाम तूर्णं व्रज ॥ ४९ ॥

 
तटमनुटं पद्मे पद्मे निवेशितमानसं

प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासिनम् ।

नयनसलिलैरुष्णैः कोष्णाः कृता जलवीचयो
 

जलदमलिनां हंसेनाशां विलोक्य गमिष्यता ॥ ५० ॥

 
पीतं येन पुरा पुरन्दरपुरस्त्रीवारिकेलिक्षल-

न्मन्दाराङ्कुरकर्णपूरसुरभि स्वर्गापगायाः पयः ।

पातुं पल्वलवारि पामरवधूपदार्पणप्रोच्छल-

त्पङ्कातङ्कितभेकभिन्नमघृणो हंसः किमाकाङ्क्षति ॥ ५१ ॥

 
सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रौञ्चचञ्चषचुप्रभिन्न-

प्रोन्निद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः ।

किंतु खच्छाशयत्वं जगति न सुलभं तेन गत्वापि दूरे

बद्धोत्कण्ठोऽनुरागादनुसरति सरो मानसं राजहंसः ॥ ५२ ॥

 
ये वर्धिताः कनकपङ्कजरेणुमध्ये

मन्दाकिनीविमलनीरतरङ्गभङ्गैः ।

ते सांप्रतं विधिवशात्खलु राजहंसा:

शेवालजालजटिलं जलमाश्रयन्ति ॥ ५३ ॥

 
मैवं मंस्थाः स्थितिपदमहं मत्त एवाम्बुलाभो

मय्यायत्तं जठरभरणं मत्कृता सत्क्रिया वा ।
 
For Private And Personal Use Only