This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
इति मनसि निविष्टामालपन्नेव हंसी
त्यजति विरहखेदाज्जीवितं राजहंसः ॥ ४१ ॥
यः संतापमपाकरोति जगतां यश्चोपकारक्षमः
सर्वेषाममृतात्मकेन वपुषा प्रीणाति नेत्राणि यः ।
तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता
वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरसि ॥ ४२ ॥
गतं तद्गाम्भीर्ये तटमपि चितं जालिकशतैः
 
५७
 
सखे हंसोत्तिष्ठ त्वरितममुतोऽन्यत्र सरसः ।
न यावत्पङ्काम्भःकलुषिततनुर्भूरि विरट-
न्बकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥ ४३ ॥
आकारः कमनीयताकुलगृहं लीलालसा सा गतिः
संपर्कः कमलालयैः कलतया लोकोत्तरं कूजितम् ।
यस्येयं गुणसंपदस्ति महती तस्यातिभव्यस्य ते
संरब्धत्वमसङ्गमन्द्रकलहं नाहं सहे हंस हे ॥ ४४ ॥
नद्यो नीचतरा दुरापपयसः कूपाः पयोराशयः
क्षारा दुष्टबकोटकङ्कटतटोद्देशास्तटाकादयः ।
भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति
त्वां भो मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥ ४५ ॥
हंस त्वं शरदिन्दुधामधवलः पक्षद्वयप्रोन्नतो
धात्रीमण्डलमण्डनस्थिरपद श्लाध्यं न किंवा तव ।
एकत्वं गतयस्तदङ्ग कुरुषे भेदं च दुग्धाम्भसो
 
नूनं सर्वगुणान्वितस्य भवतस्ते नैव युक्तं मनाकू ॥ ४६ ॥
क्रुद्धोलूक नखप्रपातविगलत्पक्षा ह्यपि स्वाश्रयं
 
ये नोज्झन्ति पुरीषदुष्टवपुषस्ते केऽपि चान्ये द्विजाः ।
येऽपि स्वर्गतरङ्गिणीकमलिनीलेशेन संवर्धिता
 
For Private And Personal Use Only
 
गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ॥ ४७ ॥
 
१५