This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
५६
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
तरौ तीरोद्भूते क्वचिदपि दलाच्छादितवपुः

पतद्धारासारां गमय विषमां प्रावृषमिमाम् ।

निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने
 

स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ३५ ॥

 
रे राजहंस किमिति त्वमिहागतोऽसि

योऽसौ बकः स इह हंस इति प्रतीतः ।

तद्गम्यतामनुपदेन पुनः स्वभूमौ
 

यावद्वदन्ति बक एष न मूढलोकाः ॥ ३६ ॥

 
दुष्टं बकोटनिकरोऽपि मरालबुद्ध्या

मानप्रदे जनपदेऽत्र समागतोऽसि ।

तन्मौनमेव कुरु हे कलहंस नो चे-

त्त्वं वक्ष्यसे बक इतीह विमूढलोकैः ॥ ३७ ॥
 

 
यो दिव्याम्बुजवृन्दमत्तमधुपप्रोद्गीतिरम्यं सर-

स्त्यक्त्वा मानसमल्पवारिणि रतिं बध्नाति केदारके ।

तस्यालीकसुखाशया परिभवक्षोदी कृतस्याधुना

हंसस्योपरि टिट्टिभो यदि रतिं धत्तेऽत्र को विस्मयः ॥ ३८ ॥

 
अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका-

वित्यक्तान्बलितन्दुलान्कवलयन्दृष्टोऽसि हृष्टैर्मुखैः ।

एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभि-

र्व्याघैधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नो सूत्र्यते ॥ ३९ ॥

 
हे हंसास्तादम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं

हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रसध्वम् ।

यावन्नाच्छेच्चिरं यो हरगलगरलव्यालजालालिनील-

प्रोन्मीलन्मेघमालामलिन सकलदिङ्मण्डलोऽभ्येति कालः ॥ ४० ॥

 
स्मरसि सरसि बीचीमम्बुदोलायितानां
 

तदनु बिसलताग्रं त्वन्मुखाद्यन्मदाप्तम् ।
 
For Private And Personal Use Only