This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।

मन्ये हंस मनो नीरे कुल्याया रमते न ते ॥ २७ ॥

 
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
 

 

कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ २८ ॥

 
यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् ।

अवकरनिकरं विकिरति तत्कि क्रुकवाकुरिव हंसः ॥ २९ ॥

 
अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् ।
 

रमते न मरालस्य मानसं मानसं विना ॥ ३० ॥

 
भृङ्गाङ्गनाजनमनोहरहारिगीत-

राजीवरेणुकणकर्णपिशङ्गोयाम् ।
 

रम्यां हिमाचलनदीं प्रविहाय हंस
 

हे हे हताश वद कां दिशमुत्सुकोऽसि ॥ ३१ ॥

 
स्थित्वा[^१] क्षणं [^२]वितैतपक्षतिरन्तरिक्षे
 

मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।

उत्पन्न मन्युपरिघर्घरनिःखनेन
 

हंसेन साश्रु परिवृत्य गतं नलीनम् ॥ ३२ ॥

 
सरसि बहुशस्ताराच्छाया दशन्परिवञ्चितः

कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।

न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं

कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ३३ ॥

 
वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्वलो
 

यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।

कान्ताचछुञ्चुपुटापवर्जित्तबिसग्रासग्रहेऽप्यक्षमः
 

सोऽयं संप्रति हंसको मरुगतः कोष्णं पयो याचते ॥ ३४ ॥
 

 
[^
१.] 'स्थित्वा चिरं नभसि निश्चलतारकेण' इति वा पाठः
[^
२.] 'विततपक्षतिनान्तरिक्षे'

इत्यपि पाठः.
 
For Private And Personal Use Only