This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।
मन्ये हंस मनो नीरे कुल्याया रमते न ते ॥ २७ ॥
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
 

 
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ २८ ॥
यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् ।
अवकरनिकरं विकिरति तत्कि क्रुकवाकुरिव हंसः ॥ २९ ॥
अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् ।
 
रमते न मरालस्य मानसं मानसं विना ॥ ३० ॥
भृङ्गाङ्गनाजनमनोहरहारिगीत-
राजीवरेणुकणकर्णपिशङ्गोयाम् ।
 
रम्यां हिमाचलनदीं प्रविहाय हंस
 
हे हे हताश वद कां दिशमुत्सुकोऽसि ॥ ३१ ॥
स्थित्वा क्षणं वितैतपक्षतिरन्तरिक्षे
 
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्न मन्युपरिघर्घरनिःखनेन
 
हंसेन साश्रु परिवृत्य गतं नलीनम् ॥ ३२ ॥
सरसि बहुशस्ताराच्छाया दशन्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ३३ ॥
वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्वलो
 
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।
कान्ताचछुपुटापवर्जित्तबिसग्रासग्रहेऽप्यक्षमः
 
सोऽयं संप्रति हंसको मरुगतः कोष्णं पयो याचते ॥ ३४ ॥
 
१. 'स्थित्वा चिरं नभसि निश्चलतारकेण' इति वा पाठः २. 'विततपक्षतिनान्तरिक्षे'
इत्यपि पाठः.
 
For Private And Personal Use Only