This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
५४
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
दद्यान्मे ततविज्ञातशास्त्रः शातं तमःशमः ।
मर्त्यस्तुतस्तपागच्छाधीशः सततवैभवः ॥ २० ॥
 
श्रीवत्सः ॥ १७ ॥
 
एभिः सप्तदशभिश्चित्रैः स्वगुरुनामगर्भितं कर्तृनामगर्भितं चाष्टादशारं
चक्रं संपद्यते । स्थापना च प्राक्प्रदर्शिता ।
 
सूरीशविजयानन्दपादपद्मं सुखप्रदम् ।
अभितोभूय सद्भक्त्या नम्रकम्रनरेश्वरम् ॥ २१ ॥
 
अथ प्रतिद्वारवृत्तानि ॥ ३ ॥
तृतीयेऽथ परिच्छेदे प्रतिद्वारक्रमो मया ।
क्रियते कोविदवृन्दहृदयानन्ददायकः ॥ २२ ॥
हंसान्योक्तिः शुकान्योक्तिर्बकोक्तिः खञ्जनोक्तयः ।
कोकिलान्योक्तयस्तद्वत्का कस्यान्योक्तयः पुनः ॥ २३ ॥
कुक्कुटान्योक्तयो ज्ञेया मयूरान्योक्तयस्ततः ।
चक्रवाकोक्तिरपरा चातकोक्तिः स्मृता बुधैः ॥ २४ ॥
चकोरोक्तिः सारसोक्तिष्टिट्टिभोक्तिः प्रभासुरा ।
तथा मयूरपिच्छोक्तिर्ज्ञेया कोविदकुञ्जरैः ॥ २५ ॥
अथ खचराधिकारपद्धतौ प्रथमं हंसान्योक्तयः ॥ १ ॥
अम्भोजिनीवननिवासविलासमेव
 
हंसस्य हन्त्यतितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधिप्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २६ ॥
 
सुखस्य मा लक्ष्मीर्यस्य तम् ॥ १९ ॥ चामरम् ॥ १६ ॥ दद्यादिति । मर्त्यस्तुतो
नरैनुतः शातं दद्यात् । कस्य मे मम । किंभूतः । ततानि विस्तीर्णानि विज्ञातानि
शास्त्राणि येन सः । पुनः किंभूतः । तमोऽज्ञानं शमयतीति तमःशमः । पुनः
कीदृशः । तपागच्छ स्याधीशस्तपागच्छाधीशः । पुनः किदृशः । सततं निरन्तरं वैभवः
समृद्धिर्यस्य ॥ २० ॥ श्रीकरी ॥ १७ ॥ इत्यष्टादशारचक्रबन्धचित्रस्यावचूरिः ॥
 
For Private And Personal Use Only