This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
५२
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
दमीश त्वां सुधीराहमानमामि ननाजित ।
तत्त्ववित् तततावेश्म स्मरमाननगेऽच्युत ॥ १४ ॥
 
श्रीकरी ॥ ११ ॥
 
दं तन्यास्त्वं तमःकंसकंसशत्रो सुरैर्नतः ।
तनुप्रभाजितवर्ण मुनिप्रभुर्मतो भुवि ॥ १५ ॥
 
हलम् ॥ १२ ॥
 
दक्षमानम मेधाविदकजातलसद्रविम् ।
विनतं वासवैः स्फारं विमलं सूरिसिन्धुरम् ॥ १६ ॥
 
For Private And Personal Use Only
 
छत्रम् ॥ १३ ॥
 
अकं दुःखं पापं वा । 'अकं दुःखाघयोः' इति हैमानेकार्थकोश: । छिन्धि जद्दीहि ।
कीदृशस्त्वम् । गदो रोग एव शैलः पर्वतः तस्मिन् दम्भोलिर्वजमिव हे घनारव
घनवन्मेघवदारवो ध्वनिर्यस्य तत्संबोधनम् । हे तमोद तमांस्यज्ञानानि यति
खण्डयतीति, यद्वा न ददातीत्यदः तमसः अदस्त मोदस्तत्संबोधनम्, सद्भिर्नतः
सन्नतस्तत्संबोधनं हे सन्नत ॥ १३ ॥ भल्लः ॥ १० ॥ हे मुनीश, अहं त्वां आन-
मामीति संबन्धः । हे सुधीर सु शोभना धीर्येषां ते सुधियस्तैः राजत इति सुधीर:,
यद्वा सु शोभना धीराः पण्डिता यस्य तत्संबोधनम्, हे नन, अजित, न जितः अजितः ।
द्वौ नकारौ प्रकृत्यर्थे सूचयतः । अपि तु अजित इत्यर्थः । अष्टकर्मभिरिति गम्यम् ।
हे तत्त्ववित् तत्त्वानि वेत्तीति तत्संबुद्धिः, हे तततावेश्म तता विस्तीर्णा चासौ ता
लक्ष्मीश्च तस्या वेश्म गृहं तत्संबोधनं, हे अच्युत हे अपतित । 'पतितं गलितं
च्युतम्' इति हैमः । कस्मिन् । स्मरमाननगे स्मरयुक्तो मानः स्मरमानः, यद्वा स्मरस्य
मानोऽहंकारः स एव नगस्तस्मिन् ॥ १४ ॥ श्रीकरी ॥ ११ ॥ हे गुरो, त्वं दं दानं
पुण्यं वा । 'दं दानं शरणं कर्म भव्यं न्यूनम किल्बिषम्' इत्यनेकार्थकोशः । तन्या इति
योगः । कीदृशस्त्वं सुरैर्देवैर्नतः प्रणतः । पुनः कीदृशः । मुनीनां प्रभुः स्वामी । पुनः
कीदृशः। मतो मान्यः । कस्याम् । भुवि पृथिव्याम् । हे तमः कंसकंसशत्रो तमोऽज्ञानमेव कंसः
तस्मिन्कंसशत्रुर्विष्णुरिव तत्संबोधनम्, हे तनुप्रभाजितस्वर्ण तनोर्देहस्य प्रभया जितं स्वर्ण
येन तत्संबुद्धिः ॥ १५ ॥ हलम् ॥ १२ ॥ हे जन, त्वं सूरिसिन्धुरं सूरिषु सिन्धुरो
गज इव तं आनम । कीदृशम् । दक्षम् । पुनः कीदृशम् । मेधाविन एव दकजातानि
पद्मानि तेषु बोधकत्वाल्लसद्रविं स्फूर्जत्सूर्यम् । पुनः कीदृशम् । वासवैरिन्द्रैर्विनतम् ।
पुनः कीदृशम् । स्फारं मनोहरम् । पुनः कीदृशम् । विमलं पापमलरहितम् ॥ १६ ॥