This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
५०
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
दनुजार्यर्च्य मा देयाः प्राणिनाममलासम ।

मतिप्रष्ठ गतायास त्वया धीररतिप्रद ॥ ६ ॥
 

वज्रम् ॥ ४ ॥
 
दन्ततर्जितसत्सूनचक्रवाल स्य तत्त्वद ।
 

दक्षमुख्य दरं कामं नं मम प्रियंवद
 
वज्रम् ॥ ४ ॥
 
॥ ७॥
 
दयोदयदयोन्माददवदाहनवाम्बुद ।

दम्भदस्यो सदाशर्मकण्टकस्वाङ्ग शंकर ॥ ८ ॥ (युग्मम् )
 

द्वाभ्यां खङ्गम् ॥ ५ ॥
 

 
दत्ख वितरणं शंसूर्व्रतीश स्मरशंकर ।

रसास्पृशां गुरो तीव्र सूरे सिद्धेर्निरन्तरम् ॥ ९ ॥
 
For Private And Personal Use Only
 

मुसलम् ॥ ६ ॥
 

 
इदं संबोधनं सहेतुकम् । 'स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः' इत्युक्तत्वात् । हे नि:-

कपट । मायारहित इत्यर्थः । कलया सह वर्तत इति सकलः तत्संबुद्धिः, हे मदरहित,

हे दवसदृश, दाहकत्वात् । कस्मिन् रोगवने ॥ ५ ॥ शक्तिः ॥ ३ ॥ दैत्यानामरयो

देवास्तैरर्च्यस्तत्संबुद्धिः, हे अमल कर्ममलरहित, मत्या प्रष्ठः प्रधानस्तत्संबुद्धिः, हे गत-

प्रयास, हे धीररतिप्रद धीर्बुद्धिस्तया राजन्त इति धीरा मेधाविनस्तेषां रतिः सुखं प्रकर्षेण

ददातीति तत्संबुद्धिः; यद्वा हे धीर बुद्ध्या विराजमान, हे रतिप्रद हे सुखप्रद, त्वया

प्राणिनां मा लक्ष्मीर्देया । हे असम न समस्तुल्यो जगति कोऽपि यस्य, यद्वा मया लक्ष्म्या

सहवर्तमानः समः न समोऽसमः । निःपरिग्रह इत्यर्थः । तत्संबुद्धिः ॥ ६ ॥ वज्रम्

॥ ४ ॥ दन्तैस्तर्जितं सत् शोभनं सूनानां प्रसूनानां चक्रवालं समूहो येन तत्संबुद्धिः, हे

तत्त्वदायक, दक्षेषु मुख्यो दक्षमुख्यः तत्संबुद्धिः, हे मधुरभाषक, त्वं काममत्यर्थे मम

भयं स्य । 'षोऽन्तकर्मणि' इति धातोः स्फोटय ॥ ७ ॥ दयाया उदयो दयोदयः तं

दयते ददातीति दयोदयदयस्तत्संबुद्धिः । उन्मादो मोहोदयाच्चित्तविप्लवः स एव

दवदाहो वनवहिह्निस्तत्र नवाम्बुदो यः स तत्संबुद्धि दम्भ: कपटं तस्य दस्युर्द्वेष्टा

तत्संबुद्धिः । 'दस्युः सपत्नो सहनो विपक्षः' इति हैम: । सदा निरन्तरं शर्मणः कण्टको

रोमाञ्चः स्वस्याङ्गे यस्य तत्संबुद्धिः । शं सुखं करोतीति शंकरस्तत्संबुद्धिः ॥८॥ द्वाभ्यां

खड्गम् ॥ ५॥ हे व्रतिनामीश, हे स्मरशंकर स्मरे शंकर ईश इव, हे तीव्र तीव्रतपःकर-
गा

णा
त्, यद्वा तपस्युत्कट । 'तीव्रं कटूष्णात्यर्थेषु' इति हैमानेकार्थकोश: । हे सूरे सूरिपद-

धारक,
हे गुरो गृणाति हिताहितमुपदिशतीति गुरुस्तत्संबोधनं, त्वं नित्यं सिद्धेर्वितरणं

दानं दत्स्व । केषाम् । रसां पृथ्वीं स्पृशन्ति ते रसास्पृशस्तेषां पुंसां शं सुखं तस्य सूरुत्प-
धारक,