This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
विज्ञातनिःशेषपदार्थसार्थं प्रबर्ह बे हिर्मुखनाथपूज्यम् ।
 
सुवर्णवर्णे जिनैवर्धमानं गिरामधीशं स्मृतिमानदोऽहम् ॥ २ ॥
अथ चित्रप्रक्रमः ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
तत्रादौ सप्तदशचित्रगर्भिताष्टादशारचक्रबन्धचित्रेण परमगुरुभट्टारक-
श्रीविजयानन्दसूरीश्वराणां स्तुतिमाह -
 
दक्षलक्षक्षमः सुश्रीर्जयाय यतिपुंगव ।
वल्गुभाभारवन्नित्यं भव क्षिप्तभवश्रम ॥ ३ ॥
 
दयावन्भगवन्भाविलोककोकखगोपम ।
 
इति कलशः ॥ १ ॥
 
महासौख्यं सतां दद्याः पुण्यविष्टरवारिद ॥ ४ ॥
 
धनुः ॥ २ ॥
 
दमवंस्त्वं गतव्याज जनानां सकलामद ।
 
दवतुल्य मकान्तारे तारं यच्छ शिवं दमम् ॥ ५ ॥
 
For Private And Personal Use Only
 
शक्तिः ॥ ३ ॥
 
इतोऽष्टादशारचक्रवन्धचित्रस्यावचूरिः ।
 
दक्षेति । हे यतिश्रेष्ठ, हे मनोहरप्रभासमूहवन्, हे निरस्तसंसारायास, त्वं मम
जयाय भव । कथम् । नित्यम् । कीदृशस्त्वम् । दक्षाणां लक्षाणि दक्षलक्षाणि तेषु क्षमः
समर्थ: अतिचातुर्थवत्त्वात्, यद्वा दक्षलक्षवत्क्षमा यस्य, अथवा दक्षलक्षैः क्षमो युक्तः
दक्षलक्षक्षमः । 'परिपाट्यां क्षमं शक्ते हिते युक्ते क्षमावति' इति हैमानेकार्थकोशः ।
पुनः कीदृशस्त्वम् । सु शोभना श्री: शोभा लक्ष्मीर्वा यस्य सः ॥ ३ ॥ कलशः ॥ १ ॥
हे कृपावन्, हे ज्ञानवन्, भावस्तुरीयो धर्मः स विद्यते येषां ते भाविनस्ते च ते लो-
काश्च त एव चक्रवाकास्तेषु सूर्यस्येव उपमा यस्य तत्संबुद्धिः, त्वं साधूनां महच्च तत्सौख्यं
च महासौख्यं दद्याः । कीदृशस्त्वम् । पुण्यमेव विष्टरो वृक्षस्तस्मिन् वारि ददातीति
वारिदो मेघः । 'वृक्षासनयोर्विष्टरः' इति निपातितः ॥ ४ ॥ धनुः ॥ २ ॥ हे गुरो, त्वं
जनानां निरुपद्रवं दमं उपशमं यच्छ देहि । कथम् । तारं यथा भवति तथा । हे दमवन्,
 
१. विज्ञातो निःशेषेण पदार्थानां सार्थ: समूहो येन सतम्; एतेन ज्ञानातिशयः. २. ब-
हिरग्निर्मुखं येषां ते बर्हिर्मुखा देवाः प्रबोः प्रकृष्टाश्च ते बहिर्मुखाश्च प्रबहेबहिर्मुखाः तेषां
नाथाः स्वामिनश्चतुःषष्टीन्द्राः प्रबर्हबहिर्मुखनाथा: तैः पूज्यम् एतेन पूजातिशयः ३. ज-
यति रागद्वेषाद्यरी वशीकरोतीति जिनः जिनश्वासौ वर्धमानश्च तम् एतेनापायागमाति-
शयः ४. गिरामधीशमित्यत्र वचनातिशयः । अस्मिन्पद्ये चत्वारोऽतिशयाः सूचयांचक्रिरे.