This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अन्यत्रानृजुवर्त्मता द्विरसना वक्त्रे विषं वीक्षणं

सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम् ॥ ६६ ॥

 
भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने

दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।

यच्चाधोमुखमक्षिणी पिदधता नागेन तूष्णीं स्थितं

तत्सर्वे विषमन्त्रिणो भगवतः कस्यापि विस्फूर्जितम् ॥ ६७॥

( इति सर्पान्योक्तयः ।)
 

 
अथ शेषनागस्य ।

इलातलभराक्रान्तग्रीवां मा शेष वक्रय ।
 

त्वयि दुःखिनि चैकस्मिञ्जीवलोकः सदा सुखी ॥ ६८ ॥

 
युक्तोऽसि भुवनभारे मा वक्रां वितनु कन्धरां शेष ।

त्वय्येकस्मिन्दुःखिनि सुखितानि भवन्ति भुवनानि ॥ ६९ ॥
 
**************
 
For Private And Personal Use Only
 
४७
 

 
……………………………………………………।
……………………………………………………
॥ ७० ॥
 

( इति शेषनागान्योतयः ।)
 

 
अथ जलचराधिकारपद्धतौ प्रथमं मत्स्यस्यान्योक्तयः ।

 
शफर संहर चञ्चलतामियं चिरमगाधजलप्रणयी भव ।

इह हि कूजितमञ्जुलजालके वसति तत्र बकोटकुटुम्बकम् ॥ ७१ ॥

 
कैवर्तकर्कशकरग्रहणच्युतोऽपि
 

जाले पुनर्निपतितः शफरो वराकः ।

जालात्पुनर्विगलितो गलितो बकेन
 

वामे विधौ व नु सुखं व्यसनागमेषु ॥ ७२ ॥

 
अथ दर्दुरान्योक्तयः ।

कि नाम दर्दुर दुरध्यवसाय सायं
 

कायं निपीड्य निनदं कुरुषे रुषेव ।
 

एतानि केलिरसितानि सितच्छदाना-

माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥ ७३ ॥