This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
यथा भग्नः पन्था परुषविषमग्रावगहनो
गलीनां नाङ्गानि स्पृशति च यथा सारथिरथम् ।
यथा चैते दृप्ताः खवलितभुवो यान्ति वृषभा-
स्तथा दूरीभूतः स खलु धवलो नूनमधुना ॥ ५३ ॥
ऊढा येन महाधुरा सविषमा मार्गे सदैकाकिना
 
सोढो येन कदाचिदेव न नगे गोष्ठेन शण्ढध्वनिः ।
आसीनस्य गवाङ्गणैकतिलकस्तस्यैव संप्रत्यहो
 
धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते ॥ ५४ ॥
अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्नोन्नते
 
ऊढा येन वृषेण धूर्बलवता यूना द्वितीयेन या ।
तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो
रथ्याभड्डलकैः समेत्य बहुभिर्नाकृष्यतेऽन्यैर्वृषैः ॥ ५५ ॥
यस्यादौ व्रजमण्डनस्य वहतो गुर्वी धुरं धैर्यतो
 
धौरेयैः प्रगुणैः कृतो न युगपत्स्कन्धः समस्तैरपि ।
तस्यैव श्लथकम्बलस्य धवलस्योत्थापने सांप्रतं
द्रुङ्गेऽत्रैव जरावशार्दिततनोर्गोः पुण्यमुद्धोष्यते ॥ ५६ ॥
एतानि बालघवल प्रविहाय कामं
 
गोष्ठाङ्गणे तरलतर्णकचेष्टितानि ।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो
 
नेतव्यतामुपगतोऽस्ति तवैष भारः ॥ ५७ ॥
 
न लिखसि खुरैः क्षोणीपृष्ठं न नर्दसि सादरं
प्रकृतिपुरुषं प्राप्याप्यग्रे न कुप्यसि गोवैरम् ।
वहति च धुरं धुर्यो धैर्यादनुद्धतकन्धरो
 
जगति गुणिनः कार्योदार्यात्परानतिशेरते ॥ ५८ ॥
 
For Private And Personal Use Only
 
१. 'प्रगुणीकृतो' इति वा पाठः. २. 'गोऽन्तरं' इति वा पाठः.
 
४५
 
( इति वृषभान्योक्तयः ।)