This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
सोऽयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां

मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु ॥ ३८ ॥

 
पीलूनां फलवत्कषायमधुरं रोमन्थयित्वा मरौ
 

शाखाग्रं यदखादि चारु करभीवकाक्त्रार्पितं प्रेमतः ।

तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा फूत्कृतं

प्राणानामभवत्तदेव सहसा प्रस्थानतूर्येयं यथा ॥ ३९ ॥
 

 
दुष्प्रापमम्बु पवनः परुषोऽतितापी
 

छायाभृतो न तरवः फलभारनम्राः ।

इत्थं सखे करभ वच्मि भवन्तमुच्चैः
 

का संगतिः खलु मरौ रमणीयतायाः ॥ ४० ॥
 

 
अस्याननस्य भवतः खलु कोटिरेषा
 

कण्टारिका यदि भवेदविशीर्णपर्णा ।

योग्याः कथं करभकल्पतरोलेर्लताया-

स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ४९ ॥

 
दासेरको रसत्येष युक्तं भारेऽधिरोहति ।

उत्तार्यमाणेऽपि पुनर्यत्तत्र किमु कुर्महे ॥ ४२ ॥

 
करभदयिते यत्तत्पीतं सुदुर्लभमेकदा

मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।

कुरु परिचितैः पीलोः पत्रैर्वृधृतिं मरुगोचरै-

र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ४३ ॥

 
करभ किमिदं दीर्घश्वासैर्दुनोषि शरीर
 
कं
विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् ।

चर किसलयं पीलोः स्वच्छो विमुञ्च मधुस्पृहां
 

पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ ४४ ॥
 

( इति करभान्योक्तयः 1)
 
For Private And Personal Use Only