This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
सोऽयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां
मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु ॥ ३८ ॥
पीलूनां फलवत्कषायमधुरं रोमन्थयित्वा मरौ
 
शाखाग्रं यदखादि चारु करभीवकार्पितं प्रेमतः ।
तत्स्मृत्वा करभेण खेदविधुरं दीर्घ तथा फूत्कृतं
प्राणानामभवत्तदेव सहसा प्रस्थानतूर्ये यथा ॥ ३९ ॥
 
दुष्प्रापमम्बु पवनः परुषोऽतितापी
 
छायाभृतो न तरवः फलभारनम्राः ।
इत्थं सखे करभ वच्मि भवन्तमुच्चैः
 
का संगतिः खलु मरौ रमणीयतायाः ॥ ४० ॥
 
अस्याननस्य भवतः खलु कोटिरेषा
 
कण्टारिका यदि भवेदविशीर्णपर्णा ।
योग्याः कथं करभकल्पतरोलेताया-
स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ४९ ॥
दासेरको रसत्येष युक्तं भारेऽधिरोहति ।
उत्तार्यमाणेऽपि पुनर्यत्तत्र किमु कुर्महे ॥ ४२ ॥
करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।
कुरु परिचितैः पीलोः पत्रैर्वृतिं मरुगोचरै-
र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ४३ ॥
करभ किमिदं दीर्घश्वासैर्दुनोषि शरीरक
 
विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् ।
चर किसलयं पीलोः स्वच्छो विमुञ्च मधुस्पृहां
 
पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ ४४ ॥
 
( इति करभान्योक्तयः 1)
 
For Private And Personal Use Only