This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
४२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
न भवति मिथुनानां प्रेमलावण्ययोगा-

ज्जनयति सुखमन्तः कस्यचित्कोऽपि दृष्टः ।

पतति झटिति दृष्टिर्मुग्धदासेरकाणां
 

जरठभुरठवल्लीपिञ्जरासु स्थलीषु ॥ ३२ ॥
 

 
रूक्षं वपुर्न च विलोचनहारि रूपं
 

न श्रोत्रयोः सुखदमारटितं कदाचित् ।

इत्थं न साधु तव किंचिदिदं तु साधु

तुच्छे रतिः करभ कण्टकिनि द्रुमे यत् ॥ ३३ ॥

 
वक्रग्रीवमुदीक्षसे किमपरं बाष्पाम्बुपूर्णेक्षणः

कः खेदः करभाधुना तृणलवैः संतर्पयैतद्वपुः ।

कान्तान्तःस्फुरदोष्ठसंपुटभुवो ये लीलयान्दोलिता
 

मुक्तास्ते नवनीलकन्दलदलश्यामाः शमीपल्लवाः ॥ ३४ ॥

 
आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लङ्घ्यतां

गेहिन्या परितोषवाबाष्पतरलामासज्य दृष्टिं मुखे ।

दत्वा पीलुशमीकरीरकवलान्खेनाञ्चलेनादरा-

दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥ ३५ ॥

 
चर करभ यथेष्टं सन्ति शष्पाण्यरण्ये
 

बहुकुसुमसमृद्धाः पीलवश्च स्थलीषु ।

यदि गणयसि वाक्यं बन्धुवर्गस्य दूरा-

त्परिहर करवीरं मृत्युरेवैष सद्यः ॥ ३६ ॥

 
चिन्तां मुञ्च गृहाण पल्लवमिमं प्लक्षस्य शालस्य वा

गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब ।

जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो

रम्याः पीलुशमीकरीरबदरीकूजत्कपोताकुलाः ॥ ३७ ॥

 
यस्यासीन्नवपीलुपत्रबदरग्रासोऽपि संतुष्टये

दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।
 
For Private And Personal Use Only