This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
४०
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति-

र्
द्वारे वेत्रलतावितानगहने कष्टप्रवेशक्रमः ।

हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना

किं भूभृत्कटक स्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ १८ ॥

 
सारङ्गो न लतागृहेषु रमते नो पांशुले भूतले
 

नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।

तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं

शैलेन्द्रोदरकन्दरासु गतभीः शृङ्गावशेषः स्थितः ॥ १९ ॥

 
सन्त्यरण्येषु चरन्ति दूर्वीवां पिबन्ति तोयान्यपरिग्रहाणि ।

तथापि बध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥ २० ॥

 
आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया
 

पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् ।

यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-

स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ २१ ॥

 
स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता

भङ्गप्रस्तुनुतदुग्धविबिन्दुमधुरा शालेर्नवा मञ्जरी ।

निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथ-

स्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ २२ ॥

 
सेयं स्थली नवतृणाङ्कुरजालमेत-

त्सेयं मृगीति हृदि जातमदः कुरङ्गः ।

नैवं तु वेत्ति यदिहान्तरितो लताभि-

रायाति सज्जितकठोरशरः किरातः ॥ २३ ॥

 
रोमन्थमारचय मन्थरमेत्य निद्रां
 

मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।

दूरे स पामरजनो मुनयः किलैते
 

निष्कारणं हरिणपोत विभेषिकस्मात् ॥ २४ ॥
 
For Private And Personal Use Only
 

( इति हरिणान्योक्तयः ।)