This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
प्रियायां स्वैरायामतिकठिनगर्भालसतया

किराते चाकर्णीकृतधनुषि धावत्यनुपदम् ।

प्रियाप्रेमप्राणप्रतिभयवशाज्जातविवशो

मृगः पश्चादालोकयति च मुहुर्याति च मुहुः ॥ ११ ॥

 
रज्ज्वा दिशः प्रवितताः सलिलं विषेण
 

पाशैर्मही हुतभुजाद्वलिता वनान्ताः ।

व्याघाःधाः पदान्यनुसरन्ति गृहीतचापाः

कं देशमाश्रयति यूथपतिर्मृगाणाम् ॥ १२ ॥
व्

 
त्
यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली

विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।

बालापत्यवियोगदुःखविधुरा मुक्तार्धमार्गे मृगी
 

मार्गान्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥ १३ ॥

 
अन्यास्ता मलयाद्रिकाननभुव: स्वच्छस्रवन्निर्झरा-

स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।

रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवद्भ्रान्तय-

स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ १४ ॥

 
अयि कुरङ्ग तपोवनविभ्रमादुपगतोऽसि किरातपुरीमिमाम् ।

इह न पश्यसि दारय मारय ग्रस पिवेबेति शुकानपि जल्पतः ॥ १५ ॥

 
किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः
 

पण वापि वनान्तरे प्रचलिते ये पान्ति भीतिं गताः ।

एकेनैव करीन्द्रदर्पदलनव्यापारबद्धस्पृहा
 

सिंही दीर्घपराक्रमेण मनसा पुत्रेण गर्वायते ॥ १६ ॥

 
किमेतदविशङ्कितः शिशुकुरङ्गलोलक्रमं

परिक्रमितुमी हसे विरमते विशून्यं वनम् ।

स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणित-

च्छुटापटलपाटलोत्कटसटाभरः केसरी ॥ १७ ॥
 
For Private And Personal Use Only