This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
३८
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।

तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम् ॥ ४ ॥

 
नैतास्ता मलयाद्रिकाननभुव: स्वच्छस्रवन्निर्झरा-

स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।

रूक्षध्वाङ्क्षजपरिग्रहो मरुरयं स्फारीभवन्नातप-

स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ ५ ॥

 
स्थलीनां दुग्धानामुपरि मृगतृष्णामनुसरं-

स्तृषार्तः सारङ्गो विरमति न खिन्नेऽपि मनसि ।

अजानानस्तत्त्वं न स मृगयतेऽन्यत्र सरसी-

मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ६ ॥

 
अयि कुरङ्ग कुरङ्गमविक्रमैस्त्यज वनं जवनं गमनं कुरु ।

इह ने हि वनेचरनायकाः सुरभिलोहितलोहितसायकाः ॥ ७ ॥

 
छित्त्वा पाशमपास्य कूटरचनां भुङ्क्त्वा बलाद्वागुरां

पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य[^१] दूरं वनात् ।

व्याधानां शरगोचरादेतिजवादुत्प्लुत्य[^२] धावन्मृगः

कूपान्तःपतितः कैरोतु[^३] विमुखे किं वा विधौ पौरुषम् ॥ ८ ॥

 
असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां

श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।

गणयति न तन्मायातोयं हतः सलिलाशया
 

भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥ ९ ॥

 
द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
 

किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।

विदधति हठाद्व्याधानां ते मनागपि नार्द्रतां
 

कठिनमनसामेषामेते विलोकित विभ्रमाः ॥ १० ॥
 

 
[^
१.] 'निःसृत्य' इति वा पाठः .
[^
२.] 'दतिरयादुत्प्लुत्य धावन्' इति वा पाठः .
[^
३.]
रोति विमुखे' इति वा पाठ:
 
For Private And Personal Use Only
 
.