This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
गजानामास्थानं मदसलिलजम्बालितभुवां

तदेको विन्ध्याद्वेरेर्विपिनमथवा भूपसदनम् ॥ ९४ ॥

 
लाङ्गूलचालनमश्चरणावपातं

भूमौ निपत्य वदनोदरदर्शनं च ।

श्वा पिण्डदस्य कुरुते गजपुंगवस्तु
 

धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ९५ ॥
 

 
निदाघे दाघार्तः प्रचुरतरतृष्णातुरमनाः
 

सर: पूर्णं दृष्ट्वा त्वरितमुपयातः करिवरः ।

तथा पङ्के मनस्तटनिकटवर्ती ननु यथा
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अथ हरिणान्योक्तयः ।
 

न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ ९६ ॥

 
यदि नाम सर्षपकणं शक्नोति करि: करेण नादातुम् ।

इयतैव तस्य ननु किं पराक्रमग्लानिरिह जाता ॥ ९७ ॥

 
यदि काको गजेन्द्रस्य विष्ठां कुर्वीत मूर्धनि ।

कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९८ ॥

 
जइ मण्डलेण भसिउं हत्थिं दहूट्ठूण रायमग्गम्मि ।

ता किं गयस्स जुत्तं सुणएण समं कलिं काउम् ॥ ९९ ॥

 
सूरो सि परदलभञ्जणो सि गरुओ सि भद्दजाओ सि ।

दाणेण विणा कुञ्जर न सोहए दन्तनिक्करडी ॥१०० ॥
 

( इति गजान्योक्तयः ।)
 
********

 
अथ हरिणान्योक्तयः ।
……………………………………………… ।
………………………………………………
.
 
For Private And Personal Use Only
 
३७
 

 
॥ १ ॥
 

 
दूर्वाङ्करतृणाहारा धन्यास्ते वै वने मृगाः ।

विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ २ ॥
 

 
कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।

क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ ३ ॥
 
१०