This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः

सिंहेनापि न लङ्घिता किमपरं यस्योद्धुरा पद्धतिः ।

कष्टं सोऽपि कदर्थ्यते करिवर: स्फारारवै: फेरवै-

रापातालगभीरपङ्कपटलीमग्नोऽद्य भनोद्यमः ॥ ६५ ॥
पकम

 
पङ्कमग्
नकरिणा न विपङ्किःक्तिः पश्यतां विधिबलं प्रतिकूलम् ।

यत्स शुद्धधरणीधरसाहसा शूकराजप्रभ एव वियत्सा ॥ ६६ ॥

 
निमग्नः पक्ङ्केऽस्मिन्ननुभव करीन्द्राधिप दशा-

मभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।

वराहे गोमायौ मृगपरिषदि श्वापदकुले
 

करिष्यन्कार्पण्यं किमुत महिमानं गमयसि ॥ ६७ ॥

 
सुदुःस्थितः स्थूलमरुस्थलीषु दीनां दशां दैववशात्प्रपन्नः ।

पुरातनाहारविहारनामान्करी करीरेऽपि करं करोति ॥ ६८ ॥

 
यूथान्यप्ग्रेतनानि प्रचुरबलभृतो बद्धवैरा मृगेन्द्रा
 

मूलादाकृष्यमाणाः सपदि तटरुहो भूरुहा निःसरन्ति ।

तं दृष्ट्वा गृह्यमाणं हतविधिमनिशं भिलपल्यामधीशं

हस्तालम्बाय केषां कलयति वदनं पङ्कमग्नः करीन्द्रः ॥ ६९ ॥

 
भो भोः करीन्द्र दिवसानि कियन्ति ताव-

दस्मिन्मरौ समतिवाहय कुत्रचित्त्वम् ।

रेवाजलैर्निजकरेणुकरप्रमुक्तै-

र्भूयः शमं गमयितासि निदाघदाहम् ॥ ७० ॥

 
रेवापयः किसलयानि च सल्लकीनां

वन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा ।

किं ताम्यसि द्विप गतोऽसि वशं करिण्याः

स्नेहो हि कारणमनर्थपरम्परायाः ॥ ७९ ॥

 
दन्ते न्यस्तकरः प्रलम्बितशिराः संमील्य नेत्रद्वयं
 

किं त्वं वारण खिद्यसे वनितया को नाम नो वञ्चितः ।
 

 
For Private And Personal Use Only
 
३३