2023-02-21 15:48:45 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
३२
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
भिन्नं तथापि नखराङ्कुशघातवेंगे-
स्तेनान्यथा भवति याक्षरभालमाला ॥ ५८ ॥
अन्तःसमुत्थविरहानलतीव्रताप-
संतापिताङ्गकरिपुंगव मुञ्च शोकम् ।
धात्रा स्वहस्तलिखितानि ललाटपट्टे
को वाक्षराणि परिमार्जयितुं समर्थः ॥ ५९ ॥
चिन्तामिमां वहसि किं गजयूथनाथ
योगीव योगविनिमीलितनेत्रयुग्मः ।
पिण्डं गृहाण पिब वारि यथोपनीतं
दैवाद्भवन्ति विपदः खलु संपदो वा ॥ ६० ॥
केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि
गाहख शैलतटनिर्झरिणीपयांसि ।
भावानुरक्तकरिणीकरलालिताङ्ग
मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ६१ ॥
पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरा-
स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः ।
धिक्तस्यैव जलानि पकिलयतः पाथोजिनीं ममतः
कूलान्युत्खनतः करीन्द्र भवतो लज्जापि
जायते ॥ ६२ ।
रेवावारिणि वारणेन विपुले राजीवराजीरज:-
पुजापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे ।
धौतं येन मृगारिरक्तमसकृद्दन्तान्तरले स्थितं
कौपं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ ६३ ।
तापो नापगतस्तृषा न च कृशा धौता न धूलिस्तनो-
र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
प्रारब्धो मधुपैरकरणमयं झङ्कारकोलाहलः ॥ ३४ ॥
For Private And Personal Use Only