This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
जो करिवराण कुम्भे पायन्दाऊण मुत्तिए दलइ ।

सो सीहो विहिवसओ जम्बुपयघट्टणं सहइ ॥ ५१ ॥
 

 
( इति सिंहान्योक्तयः ।)
 

 
अथ गजान्योक्तयः ।
 

आकृष्यन्ते करिणः पङ्कनिमग्ना महाद्विपैरेव ।
 

प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥ ५२ ॥

 
सन्त एव सतां नित्यमापत्तरणहेतवः ।

गजानां पक्ङ्कमग्नानां गजा एव धुरंधराः ॥ ५३ ॥

 
नीवारप्रसवान्नमुष्टिकवलैयोंर्यो वर्धितः शैशवे
 

पीतं येन सरोजपत्रपुटके होमावशेषं पयः ।

तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं

सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ५४ ॥

 
कर्णे चामरचारुकम्बुकलिका कण्ठे मणीनां गणः

सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी ।

लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूषाविधि-

स्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ५५ ॥

 
वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं

दृष्ट्वा कश्चित्प्रतिगजमिव त्वद्द्विषां मन्दिरेषु ।

हत्वा कोपाद्गलितदशनस्तं पुनर्वीक्षमाणो
 

मन्दं मन्दं स्पृशति करिणीशङ्कया भोजराज ॥ ५६ ॥

 
नीता कुम्भस्थलकठिनता कामिनीनामुरोजैः
 

स्तेयं कृत्वा घृधृतमणिगणैः कञ्चुकैरावृतैश्च ।

इत्याख्यातुं नरवरगृहद्वारि कुम्भीन्द्रडिम्भाः
झु

शु
ण्डादण्डैर्वपुषि बहलां धूलिमुद्धूलयन्ति ॥ ५७ ॥

 
आधोरणाङ्कुश भयाद्गजकुम्भयुग्मं

जातं पयोधरयुगं हृदयेऽङ्गनानाम् ।
 
For Private And Personal Use Only