This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
३०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
सोऽन्यः कोऽपि घनाघनध्वनिनः पारीन्द्रगुञ्जारवः

शुष्यद्गण्डमलोलपुच्छमचलत्कर्णं गजैर्यः श्रुतः ॥ ४२ ॥

 
रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह-

न्वन्यानामवलम्नं वनमिदं भलंङ्क्तुं यदुत्कण्ठसे ।

दृष्टस्तत्किमहो महोन्नतराधौरेयधात्रीधर-

प्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥ ४३ ॥

 
यस्यावन्ध्यरुषः प्रतापवसतेर्नादेन धैर्य द्रुहः
 

शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् ।

दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना

कर्षत्येव करेण केसरसटाभारं जरत्कुञ्जरः ॥ ४४ ॥

 
यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं

नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् ।

तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थली-

भृङ्गः केसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ ४५ ॥

 
निद्रामुद्रितलोचनो मृगपतिर्यावद्गुहां सेवते

तावत्खैस्वैरममी चरन्तु हरिणा: स्वच्छन्दसंचारिणः ।

उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो
 

नादे श्रोतृपथं गते हतधियः सन्त्येव दीर्घा दिशः ॥ ४६ ॥

 
यद्यपि च दैवयोगात्सिंहः पतितोऽपि दुस्तरे कृकूपे ।

तदपि हि वाञ्छति सततं करिकुम्भविदारणं मनसि ॥ ४७ ॥

 
यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः ।

तदपि न कुप्यति सिंहोऽप्यसदृशपुरुषेषु कः कोपः ॥ ४८ ॥

 
सदा मन्दमदस्यन्दिमातङ्ग पिशिताशनः ।

असंपन्नेप्सिताहारस्तृणान्यत्ति न केसरी ॥ ४९ ॥

 
हेलानिद्दलियगयन्दकुम्भपयडीपयावपसरस्स ।

सीहस्य मिएण समं न विग्गहो नेव संधानम् ॥ ५० ॥
 
For Private And Personal Use Only