This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
२८
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा
तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ २६ ॥
अद्यापि न स्फुरति केसरभारलक्ष्मी-
र्न प्रेङ्खति ध्वनितमद्रिगुहान्तरेषु ।
मत्तास्तथापि करिणो हरिणाधिपस्य
पश्यन्ति भीतमनसः पदव वनेषु ॥ २७ ॥
 
कोलः केलिमलंकरोतु करिणः क्रीडन्तु कान्तासखाः
कासारे वनकासराः सरभसं मज्जन्त्विह स्वेच्छया ।
अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽभिरूपां गतिं
कान्तारान्तरसंचरिष्णुरघुना पञ्चाननो वर्तते ॥ २८ ॥
मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः
 
सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के ।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः
सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गजितं गर्जितम् ॥ २९ ॥
यथेष्टं चेष्टध्वं मदमलिनगण्डा: करटिन-
स्तटान्यद्रेर्मन्दं निकषत विषाणैश्च महिषाः ।
सरागं सारङ्गाः सह सहचरीभिर्विचरत
 
प्रचारः सिंहानामिह हि विधिना हन्त विहतः ॥ ३० ॥
विश्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः ।
इत्थं न किंचिदपि साधु मृगाधिपस्य तेजस्तु तत्स्फुरति यस्य जगद्वराकम् ३१
सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः
 
शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् ।
बिस्फूर्जद्विकटाटवीगजघटाकुम्मैक संचूर्णन-
व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥ ३२ ॥
क्षुत्क्षामोऽपि जरान्वितोऽपि शिथिलप्राणोऽपि कष्टां दशा-
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।
 
For Private And Personal Use Only