This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
दृष्टे मयि प्रचलते यदि पादमेकं

वन्ध्या भवेद्विजननी मम सिंहसुनोः ॥ १८ ॥

 
नाभ्यासो नभसः क्रमे कररु हेर्नकोहैर्नक्रोऽयमालम्बितं

घण्टालत्वमभून्न भूरगुहां पर्यङ्कभूलङ्घने ।

पीनस्तन्यमनादराद्गलितया दृष्दैव सिंहीशिशो-

द्रोग्दानाद्रवनिम्नगा: करटिनां गण्डेषु गण्डूषिता ॥ १९ ॥

 
हरिरलसविलोचनः सहेलं बलमवलोक्य पुनर्जगाम निद्राम् ।

अधिगतपतिविक्रमास्तभीतिर्न तु वनितास्य विलोकयांचकार ॥ २० ॥
तु

 
बालाया नवसंगमे निपुणतां प्रेक्ष्यान्यथाशङ्किनो

भर्तुश्चित्तमवेक्ष्य पङ्कजमुखी तत्पार्श्वकुड्डुचेऽलिखत् ।

एकं भद्रमतङ्गजं तदुपरि क्रोधात्पतन्तं शिशुं

सिंहीगर्भविनिःसृतार्धवपुषं दृष्ट्वा स हृष्टोऽभवत् ॥ २१ ॥

 
एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते

क्रोष्टा क्रन्दति ल्गते च शशको वेगाद्रुरुर्धावति ।

निः[^१]शःङ्कैः करिपोतकैर्गिरितटश्योपाठ्यते लीलया
 
For Private And Personal Use Only
 
२७
 

हंहो सिंह विना त्वया हि विपिने कीदृग्दशा वर्तते ॥ २२ ॥

 
कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेच्छूकरः
 

कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।

के के कानि वनान्यरण्य महिषा नोन्मूलयेयुर्यतः

सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २३ ॥

 
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।

विक्रमार्जितवित्तस्य स्वयमेव मृगेन्द्रता ॥ २४ ॥

 
एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।

सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ २५ ॥

 
नास्योच्छ्रायवती तनुर्न दशनौ दीर्घौ न दीर्घः करः

सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते ।
 

 
[^
१.] 'निःशङ्कः करिपोतकस्तरुलतानुन्मोटते लीलया' इति वा पाठ.
 
ठः