This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
दृष्टे मयि प्रचलते यदि पादमेकं
वन्ध्या भवेद्विजननी मम सिंहसुनोः ॥ १८ ॥
नाभ्यासो नभसः क्रमे कररु हेर्नकोऽयमालम्बितं
घण्टालत्वमभून्न भूघरगुहां पर्यङ्कभूलङ्घने ।
पीनस्तन्यमनादराद्गलितया दृष्दैव सिंहीशिशो-
द्रोग्दानाद्रवनिमगा: करटिनां गण्डेषु गण्डूषिता ॥ १९ ॥
हरिरलसविलोचनः सहेलं बलमवलोक्य पुनर्जगाम निद्राम् ।
अधिगतपतिविक्रमास्तभीतिर्न तु वनितास्य विलोकयांचकार ॥ २० ॥
तु
बालाया नवसंगमे निपुणतां प्रेक्ष्यान्यथाशङ्किनो
भर्तुश्चित्तमवेक्ष्य पङ्कजमुखी तत्पार्श्वकुड्डुचेऽलिखत् ।
एकं भद्रमतङ्गजं तदुपरि क्रोधारपतन्तं शिशुं
सिंहीगर्भविनिःसृतार्धवपुषं दृष्ट्वा स हृष्टोऽभवत् ॥ २१ ॥
एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते
क्रोष्टा क्रन्दति बल्गते च शशको वेगाद्रुरुर्धावति ।
निःशः करिपोतकैगिरितटश्योपाठ्यते लीलया
 
For Private And Personal Use Only
 
२७
 
हंहो सिंह विना त्वया हि विपिने कीदृग्दशा वर्तते ॥ २२ ॥
कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेच्छूकरः
 
कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्य महिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २३ ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितवित्तस्य स्वयमेव मृगेन्द्रता ॥ २४ ॥
एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ २५ ॥
नास्योच्छ्रायवती तनुर्न दशनौ दीर्घौ न दीर्घः करः
सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते ।
 
१. 'निःशङ्कः करिपोतकस्तरुलतानुन्मोटते लीलया' इति वा पाठ.