This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
२६
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अथ स्थलचराधिकारपद्धतौ पूर्वे सिंहान्योक्तयः ।

सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।

प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ८ ॥

 
मृगेन्द्रं वा मृगारिं वा सिंहं[^१} व्याहरतां जनाः ।

तस्य द्वयमपि न्व्रीडा क्रीडादलितदन्तिनः ॥ ९ ॥

 
मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।

मृगारिरिति नाम्मैनैव लघुतामेति केसरी ॥ १० ॥

 
एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।

स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ११ ॥

 
मृगैर्नष्टं शशैलींर्लीनं वराहैर्वलितं रुपा ।
 
षा ।
हयानां हेषितं श्रुत्वा सिंहैः पूर्ववदासितम् ॥ १२ ॥

 
अन्वेषयति मदान्धद्विरदमदाम्बुसिक्तमवनितलम् ।

परिणतगर्भभरार्ता सिंहवधूः शल्लकीविपिने ॥ १३ ॥

 
अयि भामिनि गर्भादलं समागमैर्न मया हि नागेन्द्रेण ।

मद्गन्धाद्हिरेष्यति तूर्णमपूर्णः कुमारस्ते ॥ १४ ॥

 
धीरध्वनिभिरलं ते नीरद मयि मासिको गर्भः ।

उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥ १५ ॥

 
तावद्द्वर्जन्ति मातङ्गा ने मदभरालसाः ।

लीलोल्लालितलाङ्गूलो यावन्नायाति केसरी ॥ १६ ॥

 
अन्तर्बलान्यहममुष्य मृगाधिपस्य
 

वाचा निगद्य कथमद्य लघुं करोमि ।

जानन्ति किं न करजक्षतकुम्भिकुम्भा-

दामुक्तमौक्तिकमयानि दिगन्तराणि ॥ १७ ॥
 

 
घण्टास्वनो नुदतु वा मदवारिधाराः
 

कामं श्रवन्तु बहुधा गजराजयूथे ।
 

 
[^
१.] 'हरिम्' इति वा पाठः .
 
For Private And Personal Use Only