2023-02-21 15:48:44 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अथ स्थलचराधिकारपद्धतौ पूर्व सिंहान्योक्तयः ।
सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ८ ॥
मृगेन्द्रं वा मृगारिं वा सिंहं व्याहरतां जनाः ।
तस्य द्वयमपि न्रीडा क्रीडादलितदन्तिनः ॥ ९ ॥
मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।
मृगारिरिति नाम्मैव लघुतामेति केसरी ॥ १० ॥
एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ११ ॥
मृगैर्नष्टं शशैलींनं वराहैर्वलितं रुपा ।
हयानां हेषितं श्रुत्वा सिंहैः पूर्ववदासितम् ॥ १२ ॥
अन्वेषयति मदान्धद्विरदमदाम्बुसिक्तमवनितलम् ।
परिणतगर्भभरात सिंहवधूः शल्लकीविपिने ॥ १३ ॥
अयि भामिनि गर्भादलं समागमैर्न मया हि नागेन्द्रेण ।
मद्गन्धाद्वहिरेष्यति तूर्णमपूर्णः कुमारस्ते ॥ १४ ॥
धीरध्वनिभिरलं ते नीरद मयि मासिको गर्भः ।
उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ १५ ॥
तावद्द्वर्जन्ति मातङ्गा बने मदभरालसाः ।
लीलोल्लालितलाङ्गूलो यावन्नायाति केसरी ॥ १६ ॥
अन्तर्बलान्यहममुष्य मृगाधिपस्य
वाचा निगद्य कथमद्य लघुं करोमि ।
जानन्ति किं न करजक्षतकुम्भिकुम्भा-
दामुक्तमौक्तिकमयानि दिगन्तराणि ॥ १७ ॥
घण्टाखनो नुदतु वा मदवारिधाराः
कामं श्रवन्तु बहुधा गजराजयूथे ।
१. 'हरिम्' इति वा पाठः.
For Private And Personal Use Only