This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
घि

धि
ग्जातिं द्रुमसंकथासु यदयं कल्पद्रुमोऽपि द्रुमः ॥ १९९ ॥

 
अथ पारिजातस्य ।
 

परिमलसुरभितनभसो बहवः कनकाद्रि परिसरे तरवः ।

तदपि सुराणां चेतसि निवसितमिह पारिजातेन ॥ २०० ॥

 
इति श्रीमत्तपागच्छाधिराज-श्रीगौतमगणधरोपमगुणसमाज-सकलभट्टारकवृन्दवृन्दारक
-
वृन्दारकराज - परमगुरुभहाट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य पण्डितहंस
विजयगणि-

समुच्चितायामन्योक्तिमुक्तावल्यां देवान्योक्तिनिरूपकः प्रथमः परिच्छेदः ॥
 

 
द्वितीयः परिच्छेदः ।

 
श्रेयः श्रियां विलसनोल्लसदालयस्य
 

यस्येशितुः शिरसि भान्ति फणात्फणीनाम् ।

किं मञ्जिङ्गिनीसमुदयः कृपया धृतोऽयं
 

संसारसागरपतज्जनतावनाय ॥ १ ॥
 

 
श्रेयः श्रियामाश्रयमङ्घ्रिपद्मं यदीयमङ्कच्छलतो मृगारिः ।

समाश्रितो वक्तुमिदं मदीयं पशुत्वमश्लाघ्यमपाकरोतु ॥ २ ॥

 
स्तोष्ये [^१]श्रीविजयानन्दस्वगुरुं गरिमाम्बुधिम् ।

सर्ववर्यवराचार्यमौलिमौलिमणिप्रभम् ॥ ३ ॥

 
अथ प्रतिद्वारवृत्तानि ।
 

द्वितीयपरिच्छेदेऽथ प्रतिद्वाराणि प्रस्फुटम् ।

कोमेम[^२]लामलवृत्तानि निगद्यन्ते यथाक्रमम् ॥ ४ ॥

 
सिंहस्यान्योक्तयो ज्ञेया गजस्यान्योक्तयस्तथा ।

मृगान्योक्तिः शशान्योक्तिः फेरूक्तिः करभोक्तयः ॥ ५ ॥

 
वृषभान्योक्तयस्तद्वद्भषणान्योक्तयस्ततः ।
 

सर्पान्योक्तिस्तथैवोक्ता शेषनागोक्तयः पुनः ॥ ६ ॥

 
अथो च्येते जलरप्रतिद्वारद्वयं क्रमात् ।

मत्स्यस्यान्योक्तयो मुख्या मण्डूकान्योक्तयो मताः ॥ ७ ॥
 
२५
 
For Private And Personal Use Only
 

 
[^
१.] अयं श्रीशब्दः पूज्यत्वसूचकः
[^
२.] कोमलान्यकठोराणि मुखोच्चार्याण्यमलानि

व्यर्थाक्षररहितानि वृत्तानि पद्यानि येषु तानि कोमलामलवृत्तानि.