This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
घिग्जातिं द्रुमसंकथासु यदयं कल्पद्रुमोऽपि द्रुमः ॥ १९९ ॥
अथ पारिजातस्य ।
 
परिमलसुरभितनभसो बहवः कनकाद्रि परिसरे तरवः ।
तदपि सुराणां चेतसि निवसितमिह पारिजातेन ॥ २०० ॥
इति श्रीमत्तपागच्छाधिराज-श्रीगौतमगणधरोपमगुणसमाज-सकलभट्टारकन्दवृन्दारक
वृन्दारकराज परमगुरुभहारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य पण्डितहंस
विजयगणि-
समुच्चितायामन्योक्तिमुक्तावल्यां देवान्योक्तिनिरूपकः प्रथमः परिच्छेदः ॥
 
द्वितीयः परिच्छेदः ।
श्रेयः श्रियां विलसनोल्लसदालयस्य
 
यस्येशितुः शिरसि भान्ति फणात्फणीनाम् ।
किं मञ्जिनीसमुदयः कृपया धृतोऽयं
 
संसारसागरपतज्जनतावनाय ॥ १ ॥
 
श्रेयः श्रियामाश्रयमङ्घ्रिपद्मं यदीयमङ्कच्छलतो मृगारिः ।
समाश्रितो वक्तमिदं मदीयं पशुत्वमश्लाघ्यमपाकरोतु ॥ २ ॥
स्तोष्ये श्रीविजयानन्दस्वगुरुं गरिमाम्बुधिम् ।
सर्ववर्यवराचार्यमौलिमौलिमणिप्रभम् ॥ ३ ॥
अथ प्रतिद्वारवृत्तानि ।
 
द्वितीयपरिच्छेदेऽथ प्रतिद्वाराणि प्रस्फुटम् ।
कोमेलामलवृत्तानि निगद्यन्ते यथाक्रमम् ॥ ४ ॥
सिंहस्यान्योक्तयो ज्ञेया गजस्यान्योक्तयस्तथा ।
मृगान्योक्तिः शशान्योक्तिः फेरूक्तिः करभोक्तयः ॥ ५ ॥
वृषभान्योक्तयस्तद्वद्भषणान्योक्तयस्ततः ।
 
सर्पान्योक्तिस्तथैवोक्ता शेषनागोक्तयः पुनः ॥ ६ ॥
अथो च्येते जलघरप्रतिद्वारद्वयं क्रमात् ।
मत्स्यस्यान्योक्तयो मुख्या मण्डूकान्योक्तयो मताः ॥ ७ ॥
 
२५
 
For Private And Personal Use Only
 
१. अयं श्रीशब्दः पूज्यत्वसूचकः २. कोमलान्यकठोराणि मुखोच्चार्याण्यमलानि
व्यर्थाक्षररहितानि वृत्तानि पद्यानि येषु तानि कोमलामलवृत्तानि.