This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
२४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-

स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ १९१ ॥

 
भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं

दूरावग्रहपृष्टनिष्ट तदलं वृष्ट्या तवातः परम् ।

निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रैः परं
 

नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ १९२ ॥

 
नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि नूनं पयोद कुत्रापि ।
तरिक

तत्किं
तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ १९३ ॥

( इति प्रकाशवर्षान्योक्तयः ।)
 

 
अथागस्त्यन्योक्तयः ।

कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्याः पुनः
 

ऋन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्गता वह्नयः ।

भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं

निद्रालुः श्लथबाहुबल्लिकमलाश्लेषो हरिः सीदति ॥ १९४ ॥

 
अखर्वखर्वगर्तासु विच्छिन्नो यस्य वारिधिः ।
 

स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ १९५ ॥

 
अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।

ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ १९६ ॥

( इत्यगस्त्यन्योक्तयः ।)
 

 
अथ ध्रुवस्य ।
 

 
यदि तारकततिरपरिमिता यदि सविता यदि सोमः ।

ध्रुव भवदवलम्बेन पुनर्विचरति सकलं व्योम । १९७ ॥

 
अथ कल्पवृक्षान्योक्तयः ।
 

कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः ।

को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ॥ १९८ ॥

 
स्
वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा
 

मुक्ताभिः स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः ।
 
For Private And Personal Use Only